सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
भामिनीविलासे

एवेति यावत् । गवां वागादीन्द्रियाणाम्। वृन्दं संघ चारयन्। अयस्कान्तादिवत्प्रे- रयन्नित्यर्थः । एतेन तस्य पारोक्ष्यं प्रत्युक्तम् । एतादृशोऽस्ति स त्वया बन्धुर्न कार्य इत्यन्वयः । तत्र हेतुः सौन्दर्येत्याद्युत्तरार्धेन । एष वां सौन्दर्येणामृतं कैवल्यमुद्रि- रद्भिः एतादृशैः । मन्देति । मृदुहासैः यद्वा तत्सदृशेरपरोक्षज्ञानोत्तरका- लिकखाकार वृत्तिविशेषैरित्यर्थः । संमोह्य वशीकृत्य त्वां तव वल्लभान्विषयांश्च । आशु शीघ्रम् । जयं नाशं नेष्यतीति संबन्धः । तस्माद्धितेच्छुना भवतेतः परं तत्सख्यमेव विधेयमित्याशयः ॥

एवं वाणीमप्युपदिशति-

अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षौधैरपि बहुमतां माधुरीमुद्गिरन्त
कृष्णेत्याख्या कथय रसने यद्यसि त्वं रसझा ॥ १० ॥

 अव्याख्येयामिति । हे रसने, ‘रसज्ञा रसना जिह्वा' इत्यमरादयि जिहै इत्यर्थः। यदि त्वं रसज्ञासि तर्हि तां कृष्णेत्याख्यां कथयेति योजना । अहो यत्कथनमात्रेण मद्रसज्ञवं प्रख्यातं भवति का सा वैतादृशी लोकोत्तररसमयीत्यत्राह पूर्वार्धेन । यो कृष्णेत्याख्या । अन्तश्चेतसि निमग्ना मनसैव पराख्यवागात्मना परिणतेनोच्चा- रिता सतीत्यर्थः । पराम् । अतएव । अव्याख्येयां वागायगोचरब्रह्माद्वैतविषयत्वेना- निरुच्यामित्यर्थः । एतादृशीं प्रीतिं परितुष्टिं वितरति ददातीत्यर्थः । एवं च मानस- नामस्मरणस्याद्वैतात्मानन्द एव फलमिति द्योत्यते । तथा कण्ठे लग्ना। मध्यमाख्यया। वाचोच्चारिता सतीति यावत् । नितरां निरवशेषं न तु यत्किचित् । तत्रापि । आन्तरेति । आन्तरमन्तर्भवं मानसमित्यर्थः । एतादृशं ध्वान्तजालमविद्यातमः- पटलमित्यर्थः । हरति ध्वंसयतीत्यर्थः । इदमप्युच्चारणं योगैकसाध्यमतः सुगमोपा- याभिधित्सया मया प्रथम वैखर्यभिधानवमेव प्रार्थितासीत्याशयेन तस्या अपि तत्र लोभं जनयितुं निरुक्ताख्यां विशिनष्टि द्राक्षेत्यायवशिष्टेन । द्राक्षाणां मृद्वीकादि- यावत्तदुत्तमजातीनां य ओघाः संघास्तैरित्यर्थः । अनेन लोकोत्तरमाधुर्यवत्वं तेषु ध्वन्यते । बहुमतामादृतामित्यर्थः । एतादृशीं माधुरीं मधुरतामुद्रिन्तीं। तृप्ति- पूर्वकं विकासयन्तीमिति यावत् । तस्मात्त्वयावश्यमियं सेवनीयेत्याशयः । गयो- स्प्रेक्षालंकारः ॥