पृष्ठम्:भामिनीविलासः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
शान्तविलासः ।

 ननु किमेवं वागादीन्द्रियोपदेशेन तेषां खदेकपारतघ्यायदि वय्येव ‘परोप- देशसमये सन्ति सर्वेऽपि पण्डिताः । तदनुष्ठानसमये मुनयोऽपि न पण्डिताः ॥ इति न्यायेन केवलमुपदेशकौशलमेव तर्हि तेषामपि कूपकलशजलन्यायेन कथं नामोपदेशसहस्रऽपि तत्र प्रवृत्तिः स्यादित्याशङ्य खस्यापि नैसर्गिकभगवन्मात्रप्रेम- परवं संस्फुटयति-

सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा-
स्तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरूर्ध्वाक्षैरथ निजसखं नीरदं स्मारयद्भि-
श्चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥११॥

 सन्त्येवेति । वासना प्रीतिमूलीभूता संस्कारनाम्नी मनोनिष्ठा भावनेत्यर्थः । अस्वैवं भावत्की प्रीतिश्चातकेषु किं ततः प्रकृत इति शङ्कां शमयनुक्तप्रीतौ हेतु द्योतयति यैरित्याद्युत्तरार्धेन । अथ ऊर्ध्वनेत्रवानन्तरम् । निजेति । जीवनदबेन खप्राणीभूतमित्यर्थः । उक्तं हि-‘समप्राणः सखा मतः' इति । किमप्यवाङ्मनस- गोचरमित्यर्थः । एवं च नीरदस्मरणेन तद्वर्णस्य श्रीकृष्णस्यापि स्मृतिः संभवतीति परम्परया तत्प्रयोजकत्वेन चातकेषु हंसादीनप्यनादृत्य मत्प्रीतिरुचितैवेति भावः । एतेन भगवद्विषयकं नैसर्गिक प्रेम व्यज्यते। शिष्टं तु स्पष्टमेव । इह स्मृतिरलंकारः काव्यलिङ्ग खभावोक्तिश्च ॥

 नन्वथापि स तु तवापि ममेव परोक्ष एवेति चेन्न । नित्यापरोक्षरूपस्य तस्य परोक्षकल्पनाया व्यामोहैकमूलकवात्सर्वदृश्यजालस्य तन्मात्रप्रकाशेन भासमानखा- चेत्यभिसंधाय भेदवादिनः समुपहसति--

विष्वग्रुच्या भुवनमभितो भासते यस्य भासा
सर्वेषामप्यहमिति च यत्प्रत्ययालम्बनं यः ।
तं पृच्छन्ति स्वहृदयतलावेदिनो विष्णुमन्या-
नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १२॥

विष्वगिति । यस्य व्यापकस्य परब्रह्मरूपस्य श्रीविष्णोरित्यर्थः । विष्वग्रुच्या । विष्वक् समन्ततः सर्वदेशकालाद्यवच्छेदेनेत्यर्थः । रुचिः सर्वजीवानां प्रीतिर्यस्यां सा तथा तयेत्यर्थः । ‘रुचिर्मयूखे शोभायामभिषङ्गाभिलाषयोः' इति विश्वः । तत्त- द्वस्तुविषयकज्ञानेऽभिलाषो हि सर्वेषां जीवानामवश्यं वाच्यः । अन्यथोपादेये खेष्ट-