करणप्रयोजकस्खौत्कण्ठयद्योतकस्खविषयकतदनुरागैौकट्यमपि प्रकटयति-- वक्षोजाप्रमित्यादिभित्रिभिः
वक्षोजाग्रं पाणिनामृश्य दूरं |
वक्षोजाग्रमिति । हे सखि, कदाचिदेकान्ते वक्षोजानं कुचाग्रम् , न तु कुचौ कुचं वा । तेन विनोदः सूचितः । पाणिना करेण । आमृश्य । ईषत्स्पृष्टे त्यर्थः । द्राक्। ब्रअल सपदि द्रुते’ इत्यमराच्छीघ्रमित्यर्थः । दूरं यातस्य तत्रापि प्रियस्य प्रीति विषयस्य तं ममेत्यर्थः। एतेन वक्ष्यमाणरोषस्य प्रणयमूलकत्वं द्योत्यते । आननाब्जं मुखचन्द्रं वदनकमलं वा। भामिनी निरुक्तचूचुकस्पर्शतः प्रोद्दीप्तका मापूर्तेः कोपना । पूर्वोक्तनायिकेति यावत् । शोणेति । अरुणकोणाभ्यामित्यर्थः । एवं च हार्दस्य कोपानेर्बहिः प्रभापि व्यञ्जिता । एतादृशाभ्यां लोचनाभ्याम्। जोषं विनोदानुसंधानात्प्रथमं सुखं यथा स्यात्तथा । ततः जोषं किमथ निकटमभिसर्तव्यं न वेति संदेहात्तूष्णीं यथा तथा । पुनः । जोषमेव किमनेनेदं मन्मदनोद्दीपनं विधाय तदपूरणमथुनं क्रियत इति धिगेनमिति मर्यादोल्लङ्घनध्वननं च यथा तथैवावतस्थ इत्यन्वयः। ‘तूष्णीमथै सुखे जोषम्' इत्यमरः । ‘जोषं सुखे प्रशंसायां तूष्णीं लङ् नयोरपि’ इति कोशान्तरमपि । यद्वा जुषित्वा जुषित्वा पुनः पुनः संसेव्येत्यर्थः। शेषं तु प्राग्वदेव । तस्मात्त्वया दूरं नैव स्थातव्यम् । किं तु तप आगत्य मद्र तिसंपूर्तिरेव विधेयेत्याशयः । अत्र क्षुब्धा मध्या स्वकीया परकीया वा नायिका । विनोदी नायकः। संभोगः शृङ्गारः। श्लेषोऽलंकारः ॥
गुरुभिः परिवेल्लितापि गण्ड |
गुरुभिरिति । श्वभूप्रभृतिभिः। पूज्यैरित्यर्थः । परिवेल्लितापि । अभिव्याप्ता पीत्यर्थः । ‘परिवेष्टिता’ इत्यपि पाठः । अपिनानुरागातिशयो व्यज्यते । गण्डेति । कपोलपालिकप्पनयनलक्षणरम्यमिषेणेति यावत् । एतेन चातुर्यातिशयः सूचितः।