पृष्ठम्:भामिनीविलासः.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
शृङ्गारोल्लासः ।

दरैति । ईषत्प्रकाशितपैरोबैंकधृक्यनावृतभुजकनकपुण्डरीकवृन्तेत्यर्थः । एतेन सुरताभिलाषः सौन्दर्योत्कर्षश्च द्योत्यते । एतादृशी बाला निरुक्तनायिका मयि। नयनाञ्चलं लोचनपल्लवम् । संभोगदानसूचकं कटाक्षमित्यर्थः । अत्र लुप्तोपमा लंकारः । अन्यत्सर्वं प्राग्वदेव ॥

गुरुमध्यगता मया नताङ्गी
निहता नीरजकोरकेण मन्दम् ।
दरकुण्डलताण्डवं नतभ्रू-
लतिकं मामवलोक्य घूर्णितासीत् ॥ १८ ॥

 गुर्विति । अत एव । नतेति । मया । नीरजेति । कमलमुकुलेनेत्यर्थः । त्वत्कुचतोऽयं न्यूनोऽधिको वेति परीक्ष्यतामिति विनोदो द्योत्यते । मन्दं निहता । अन्यैरविज्ञातं यथा तथाभिहतेत्यर्थः । एतादृशी सती सा । दरेति । ईषत्ताटङ्क नटनं यथा तथा । नतेति ! नम्रभ्रूवल्लिकं च यथा तथेत्यर्थः । क्रियाविशेषण- द्वयेनानेन क्रमादावेगविनयौ ध्वनितौ । एवं मामवलोक्य चूर्णिता कम्पिता । एतेन किमिदमकार्यसमीक्ष्यैव प्रेक्षावद्भिरपि भवद्भिरित्याक्षेपो ध्वनितः । अत्रापि रूपकमलंकारः। शेषं तु प्राग्वदेव ॥

 एवं संप्रेरितसख्युपदेशादागतां । सीतां प्रति श्रीरामो राधां प्रति वा श्रीकृष्णः किंचिदुपालभते--

विनये नयनारुणप्रचरा
प्रणतौ हन्त निरन्तराश्रुधारा ।
अपि जीवितसंशया प्रयाणे
नहि जाने हरिणाक्षि केन तुष्येः ॥ १९ ॥

 विनय इति । अयि हरिणाक्षि, त्वयि मया विनये कृते सति तव । नय नेति । अरुणस्य शोणवर्णस्य यः प्रचारोऽरुणप्रचारः। नयनयोररुणप्रचारो यस्याः सा तथा। कुपिता भवतीत्यर्थः । तर्हि विनयकापट्यसंभवभजको नमस्कारः कार्य इत्यत्राहप्रणताविति । हन्तेति खेदे । निरन्तरेति । निरन्तरमश्रुधारा यस्याः सा तथा । रुदिता भवसीत्यर्थः । तथुपेक्ष्येत्यत आह-अपीति । प्रयाणे मया गमने क्रियमाणे सति तु । जीवितेति । जीवितस्य संशयो यस्याम् । एतादृशी संदिग्धजीवितापि भवसीत्यर्थः । अतस्त्वं केनोपायेन तुष्येः संतुष्यसीत्यहं नहि