श्रीकृष्णो वाकलय्योपेक्षाया अपीदृक्स्थले कार्यकारित्वस्य लोकाद्यलोकितवेन तामेव कुर्वन्नपि निरुक्तनायिकासौन्दर्यादिपारवश्येन परमविकलश्च सन्संस्कारव- शात्तद्विपरीतसुरतावस्थां रतान्तोत्तरद्वित्रिपलोत्तरं पुनः स्खेन रतिप्रार्थनायां कृतायां सत्यां तदनादरद्योतकमस्तकदोलनावस्थां वा स्मृत्वा ततः संजातं दुःखो त्कर्षमसहमानः खमनस्येव रहसि दैवं पुरः स्थितमिव प्रकल्प्य तत्प्रतिवदति-
स्वेदाम्बुसान्द्रकणशालिकपोलपालि- |
स्वेदाम्बुसान्द्रेति । रे दैव । मदिरेति । मदिरेक्षणमवलोकनं यस्याः सा तथा तस्याः । सुरासमसंमोहकविलोकनाया इत्यर्थः । एतेन अहो यस्याः स्खभा विकानिरीक्षणमपि मद्यवत्स्खास्वादकमादकं किं वाच्यं तस्याः प्रोकावस्थावलोकन स्मरणं तथेति तदनाप्या दुःखातिरेकः सूच्यते । कापि निर्वक्तुमशक्यापि । एवं चालौकिकत्वं तदवस्थायां व्यज्यते । तेनाप्युकविप्रलम्भपरिपोष एव प्रध्वन्यते । तर्हि किं विपरीता । नेत्याह-रम्येति । एतेन शोकशङ्कनवकाशः सूचितः । एतादृशी दशावस्था मे मम मनस्यन्तःकरणे स्मरणे । जायमाने सतीत्यर्थः । आनन्दं हर्षम् । नाडुरयति नैवाविर्भावयत्यपि किं पुनर्वकव्यं न वर्धयतीति संबन्धः । वक्ष्यमाणगुणायाः पूर्वोक्तालौकिकनायिकावस्थायाः स्मरणे जाय माने मन्मनसि मनसिजपरिताप एव भूरितरं भवतीति भावः । यथाश्रुतभट्टस्तु यथाश्रुतमेव स्मरणपदं तृतीयान्तं कृखा योजयन्ति । तेषां स्मरणस्य परोकैकवि- षयखेनावश्यं वियोगकालिकखस्य वाच्यत्वात्तदानीं निरुक्तस्मरणस्य दुःखेकजनक खस्यानुभवसिद्धत्वेनानन्दजनकखस्य सुतरामयुकखादाप्रहेण तदङ्गीकारे तु प्रकृते प्रतिपाद्यखेन विवक्षितस्य शृङ्गारस्य भङ्ग एव भवेत् । तस्माद्युक्तमेवेदं सप्तम्यन्त खेन व्याख्यानमिति तत्त्वेन विदो विदांकुर्वन्विति दिक् । कुत एतदिति चेदत आह-खेदेत्यादि पूर्वार्धेन निरुक्तदशां विशेषणयन् । खेदाम्बुनः पूर्वोक्तरतिश्रा न्तिजन्यघर्मोदकस्य ये सान्द्राःन तु विरलाः । तेन श्रमाधिक्यात्सौकुमार्याधिक्यं ध्वन्यते । ते च ते कणाः ‘लवलेशकणाणवः” इत्यमरान्मौकिकजालकतापन्नः दृषतास्तैः शालते शोभत इति तथा । तादृशी या कपोलपालिः कपोलयुग लस्थली तस्यां दोलाग्निते पुरुषागितवेगादान्दोलायमाने तत्कालावच्छेदेन रता