पृष्ठम्:भामिनीविलासः.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
शृङ्गारोल्लासः ।

दम् । उकं हि वृत्तरत्नाकरे-‘ससजाः प्रथमे पदे गुरू चेत्वभरा येन च माल भारिणी स्यात्’ इति ॥

 एवं कृतेऽपि स्तवे प्रागुक्तरीत्या सीतायां राधायां वा मानातिरेकादप्रसक्षायां सत्यां श्रीरामः श्रीकृष्णो वा किं मन्मुखमेवैवं लोकोत्तरगुणाढ्यं नापरशरीरमिति प्रत्युत रोचैकपरितोषकारिणीं तदाशङ्कां प्रशमयंस्तदङ्गमार्दवमपि संवर्णयति

नितरां परुषा सरोजमाला
न मृणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकाना-
मथ का नाम कथापि पल्लवानाम् ॥ २ ॥

 नितरामिति । अयि प्रिये, यदि तवङ्गकानां करचरणाद्यखिलावयवानां कोम लता मृदुता यदि । दैववशादनुभूयेत चेदिति शेषः । एतेन पूर्वोतमानवत्त्वादी श्वरस्यापि मे वदङ्गसङ्गः सुदुर्लभ एवेति द्योत्यते । तेन किंचिदुपालम्भोऽपि सूच्यते । तदा सरोजमाला कमलमालापि । न तु सरोजमात्रम् , नापि नितरां परुषा । अत्यन्तं कठोरेत्यर्थः । एवं च तस्याः सौकुमार्योत्कर्षः सर्वानुभवसिद्धो ऽपि प्रकृताग्रे तुच्छ एवेति व्यज्यते । एवं भवखस्यास्तथात्वम् , परं त्वेतद्भवति- बिसतन्तूनां प्रकृतसाम्यं भवेदेवेत्यत्राह--न मृणालानीति । विचारपेशलानि सामान्यतः कोमलवेन प्रसिद्धान्यपि किं त्वदङ्गापेक्षया तानि तथा वा न वेति संशये यदि तानि कोमलानि वदवयवापेक्षया स्युस्तहैिं विरहदशायां खया शय्यायां योजितानि सन्ति खदतें मुदाजनकानि न स्युरित्याद्युदाद्यात्मकविवेके तु पेशलानि ‘पेशलो रुचिरे दक्षे’ इति विश्वात्कोमलतया रुचिराणि । कोमल वा दक्षाणि न । नैव सन्तीत्यर्थः । तेन प्रकृतेऽलौकिकमार्दवं ध्वनितम् । यदामदुक धुरंधराणां मृणालनामपीदृगवस्था, अथ तदा पल्लवानाम् । पदस्खत्पदो लवः सौन्दर्यस्य लेशो येषु ते तथा । तेषां का नाम कथा । न कापेत्यन्वयः । अत्र परिकराङ्करः काव्यार्थापत्तिश्चलंकारः । तदुक्तं कुवलयानन्दकारेिकासु —कैमुयेना र्थसंपत्तिः काव्यार्थापत्तिरिष्यते । स जितस्वन्मुखेनेन्दुः का वार्ता सरसीरु- हाम्’ इति । एवं विशेष्यस्य साभिप्रायवे परिकराङ्करोऽपि तत्रैवोक्तः । सोऽत्र स्फुट एव । शेषं तु सर्वे प्राग्वदेवात्राप्यनुसंधेयम् ॥

 अथैवं प्रार्थनेऽप्यतिभूमिगतमानखेनाप्रसन्नमेव सीतां राधां वा श्रीरामः