न्तश्रान्तवाकान्तयाचितरतान्तरनिषेधध्वनकसकृच्छिरोवधूननतो वा तथाभूते ये अवणकुण्डले कर्णस्थिते रत्नताटङ ताभ्यां मण्डयितुं विभूषयितुं योग्येति तथा । अत्र दशवन्मण्डनेनैव यौवनवद्दामण्डनं बोध्यम् । एवमम्बुपदं श्रवणपदं चाधि कवदपि तत्कणेषु मौक्तिकचस्य कुण्डलयोस्तनिष्ठत्वेन विलक्षणशोभावत्त्वस्य च सूचकत्वादुचितमेवेति । इह स्वकीयादिः प्रागुक्तैव नायिका रसश्च । विरहातुरो नायकः । चरमपदे लुप्तोपमादिरलंकारः । वसन्ततिलकावृत्तम् —‘उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥
अथैवं विरहार्ततां नायकस्य सख्यादिद्वारा ज्ञात्वा द्वितीयदिवसे सायं स्वयमेवा भिसृतां सीतां राधां वा श्रीरामः श्रीकृष्णो वा राकापीयूषकरापेक्षयापि निष्कल इत्यादिना लोकोत्तराननसौन्दर्यवर्णनेनाभिनन्दयति
कस्तूरिकातिलकमालि विधाय सायं |
कस्तूरिकेति । अयि आलि । खतोऽभिसरणतः सखीप्राये प्रिये इत्यर्थः । एतेन वक्ष्यमाणप्रार्थनकरणयोग्यत्वं व्यङ्गयम् । त्वं कस्तूरिकातिलकं निजवदनस्य मृगाङ्कतौल्याप्तये मृगमदविशेषकमित्यर्थः । एवं च तन्मुखस्य निष्कलङ्कवेन पूर्णचन्द्रापेक्षयापि विलक्षणानन्दप्रदत्वं द्योत्यते । विधाय ललाटे कृत्वा । अद्य सायं स्वयमभिसरणात्स्मेरानना । स्मेरमागन्तुकमानादिजन्यरोषावमोषेण नैसर्गि- कमन्दहासयुक्तमित्यर्थः । एतादृशमाननं मुखं यस्याः सा तथा। स्मितवदना वर्तस एवेति यावत् । अतः सपदि झटितीत्यर्थः । एतेन यदि विलम्बं कुर्यादेकदाचि पूर्ववत्पुनर्मानवशाद्रोषकषायिताननापि स्याः । तदानीं वक्ष्यमाणास्मत्समीहितं न स्यादित्युपालम्भेन किंचिद्विनोदोऽपि द्योतितः । समयातिक्रमभीतु मुख्यं प्रयोजनम् । सौधेति । नैजराजमन्दिरमूर्धानमित्यर्थः। शीलयाधिरोहेति योजना। किमर्थमिति चेत्तदाह--औढिमित्याद्युत्तराधैन । कुमुदानि कैरवाणि न त्वब्जानि । मुदामानन्दानाम् । ‘मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः । उदारां निरतिशयाम् । एतेन चन्द्रदर्शनजन्यानन्दस्य तेषां प्रायः प्रतिदिवसं सत्त्वेऽपि तस्य सातिशय त्वावद्वदनदर्शनजन्यस्य निरतिशयखाच्च वदाननं लोकोत्तरसुन्दरमेवेति सूचितम्।