आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/त्रयोदशप्रश्नः

विकिस्रोतः तः

अथ त्रयोदशः प्रश्नः.


धातुशोषककर्मानेकविषयककार्यजन्यमन्दानलप्रयुक्त सिरापथगतदोषगतप्रतिबन्धकयावद्धातुविकारकारकयावत्क्रिमिगतदोषवृद्धिक्षयः क्षयः ।
 
तन्निवर्तकपोषकद्रव्यं तत्र भेषजम् ।
 
लक्षणान्यपि तथा ।
 
योग्यैस्तवच्च निवर्तयेत् ।
 
अनेकहेतुकद्रव्यमनेककार्यकृत् ।
 
अनामपालनं कुर्यात् ।
 
आमं हि सर्वरोगाणाम् ।
 
आदिभूतमाह ब्रह्मा ।
 
गन्धवद्गुणभूयिष्ठ पार्थिवद्रव्यावयवादिकरसविरसद्रव्यादनजन्यामपित्तविषयक्रिमिग्रस्तसिराविकाररसासृग्धातुविकारा अत्र दृश्यन्ते ।
 
रसविरसवद्द्रव्यादनाजीर्णजन्यामज्वरे लङ्घनं विशोषकद्रव्यं च तत्र भेषजम् ।
१०
 
तच्छोफपाण्ड्वामयातिसारार्शंसि कुष्ठरक्तपित्तमेहविकारा दृश्यन्ते ।
११
 
अनेकरोगानुगतो बहुरोगपुरोगमः । इतिहेतुकं षड्रसविरसद्रव्यं यथायोगं धातुनाशकृत् ।
१२
 
रसो ह्यसृक् । रसो वै सः । रसं हैवायं लब्ध्वाऽऽनन्दी भवति ।
१३
 
शुक्ले स्वादु । मज्जाऽऽम्लम् ! अस्थि लवणम् । मेदः तिक्तम् । मांसे ऊषणम् । कषायरसाः रसासृग्धातुपोषकाः ।
१४
 
रसासृक्स्वादु । मांसमाम्लं । मेदो लवणम् । अस्थि तिक्तम् । मज्जोषणम् । शुक्लं कषायरसः विरसः । विरसा रसासृग्धातुनाशकाः ।
१५
 
ये ये रसास्तद्भूतजातास्ते तत्तद्भूतपोषकाः ।
१६
 
रसोपरसलोहादिनाधारमहारसात्पञ्चभूतात्मकाः ये ये महारसाः महारोगनिवर्तकास्तत्तत्कृतिविषयकरसा जारणाभावनात्मकाः ।
१७
 
नाजारितं रसं मारयेत् ।
१८
 
जारिता रसा आरोग्यभक्तिमुक्तिप्रदायकाः ।
१९
 
सोमरसास्सपित्तास्सविषाः पाकीकृता रसासृङ्मांसगामपित्तज्वरानुगत पवनपित्तविभ्रमतन्द्रारुग्दाहदोषप्रजागरोपनिवर्तकाः ।
२०
 
मृतलोहामृतं सपाकीकृताश्शुद्धरसाः मेदोस्थिगतविकारानुसरितपवनपित्तद्वन्द्वहेतुकरसजीर्णाजन्यामपित्तविषक्रिमिकण्ठकुब्जसिताङ्गकर्णिकरक्तजिह्वातले तन्द्रादाहशोषप्रकोपनिवर्तकाः ।
२१
 
यावद्गन्धपवनाजीर्णजन्यामविकारकवचनदोषा यावद्बहिर्दृश्यन्ते, यावद्गन्धेतराजीर्णजन्यामविकारपित्तदोषा यावद्देहे प्रभवन्ति, यावद्गन्धपवनाजीर्णजन्यामविकारपित्तजनकदोषाः यावद्बहिः प्रदृश्यन्ते; ताव[१] द्गन्धविशेषाज्ञानं दोषत्रयपूरितहेतुकाजीर्णजन्यामपचवनर्वविकारदोषाः ।
२२
 
रसविरसवद्द्रव्यादनाजीर्णजन्यामविशेषः पित्तदोषः ।
२३
 
न तैजनजन्यः पित्तदोषः ।
२४
 
बहिःस्थिता दोषा दन्तविकारकारकाः ।
२५
 
पञ्चाशद्वर्णाधिष्ठिता यथायोगं तथा तत्तदङ्गाभिवर्धकाः ।
२६
 
बाह्याग्निरग्निस्थाने ज्वलयति ।
२७
 
अग्निर्मे वाचि श्रितः, वाग्घृदये, हृदयं मयि, अहममृते अमृतं ब्रह्मणि ।
२८
 
वाक्प्रवर्तकः[२] सिराधमनीः प्रज्वलयति ।
२९
 
वायुर्मे प्राणे श्रितः । प्राणो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३०
 
अग्निं वा वादित्यः सायं प्रविशति । तस्मादग्निर्दूरान्न ददृशे । सूर्यश्चक्षुर्गमयतु । सूर्यो मे चक्षुषि [३]श्रितः । चक्षुर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३१
 
मनोविकाराकारकमन्नमद्यात् ।
३२
 
रसवद्द्रव्यं शिरोनिरामयकारकम् । सर्वेन्द्रियाह्लादकम् ।
३३
 
दुस्संयोगवर्णमनोद्रव्यं पञ्चप्राणाधारकम् ।
३४
 
चन्द्रमा मे मनसि श्रितः । मनो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३५
 
अब्द्रव्यं सर्वशरीरपोषकम् ।
३६
 
रेतो वा आपः । आपो मे रेतसि श्रिताः । रेतो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । रेतसो वा तस्मिन्नेतो दधाति ।
३७
 
विगन्धविगतरसालवालं सर्वशरीरपोषकम् ।
३८
 
पृथिवी मे शरीरे श्रिता । शरीरं हृदयं । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३९
 
यावत्सरसवद्द्रव्यं निरामयकारकम् ।
४०
 
यावत्तनूरुहस्तावत्तनूंषि भिभ्रति ।
४१
 
ओषधयः सोमे राज्ञि प्रविष्ठाः । पृथिवी तनुम् । ओषधिवनस्पतयो मे लोमसु श्रिताः । लोमानि हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
४२
 
इन्द्रो मे बले श्रितः । बलं हृदये । हृदयं मयि । अहममृते । अमृतं [४]ब्रह्मणि ।
४३
 
यावत्तनूरुहस्तावत्तनूंषि विभूति । पर्जन्येनोपधिवनस्पतयं प्रजायन्ते । पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
४४
 
[५]वनस्पतिप्रेरितो मन्युर्भवति । ईशानो मे मन्यौ श्रितः । मन्युर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि[६]
४५
 
अयुर्वेदशज्ञानं नक्षत्रज्ञानपूर्वकम् ।
४६
 

इत्यायुर्वेदस्य त्रयोदशः प्रश्नः समाप्तः.


  1. 'याव' इत्येव मूले पाठः.
  2. वायुः प्रवर्तकः.
  3. तै. ब्रा. III. 10, 8, 17.
  4. A कोशे नेदं ‘इन्द्रो मे-ब्रह्मणि' इति वाक्यं दृश्यते ।
  5. वनस्मतीत्यादि–-ब्रह्मणीत्यन्तं न कोशे.
  6. तै. ब्रा. III. 10, 8.