आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/चतुर्दशप्रश्नः

विकिस्रोतः तः

अथ चतुर्दशः प्रश्नः.


अश्वनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं अवर्णाधारकपादपद्मं सर्वशरीराधारकम् ।
 
भरणि-ऋक्षरूपं सप्तत्रिंशत्सिराश्रितं इवर्णजानुपद्म चलनक्रियाकारकगतागतकर्मोपकारकम् ।
 
कृत्तिकाभाधिष्ठितं सप्तत्रिंशत्सिरावृतं उवर्णाश्रितजङ्घापद्मं जङ्गमशरीराधारकम् ।
 
रोहिणी-ऋक्षरूपं सप्तत्रिंशत्सिरावृतं ऋवर्णाश्रितमेढ्रपद्मं

प्रजाजननकारकं । सिरावलम्बक-ऋवर्णबोधकोरुपद्मं

जङ्गमशरीरधारकम् ।
 
मृगशिरोनक्षत्ररूपं सप्तत्रिंशत्सिराश्रितं लृवर्णबोधकप्रदेशगतकमलं जलमलाशयधारकम् ।
 
आर्द्रानक्षत्रात्मकं सप्तत्रिंशत्सिराश्रितं एवर्णज्ञापकपृष्ठप्रदेशकमलं[१] अतिसुखकारकम् ।
6
 
पुनर्वसूभाप्रतिपादकं सप्तत्रिंशत्सिराधारकं ऐवर्णाधारकमलं रतिसुखकारकम् ।
 
तिष्यतारारूपं सप्तत्रिंशत्सिरावृतं ओवर्णाश्रितनाभिपद्मं श्वासपवनगतिकारकम् ।
 
आश्लेषानक्षत्रात्मकं साप्तत्रिंशत्सिरावृतं औवर्णाधारभूतं कुण्डलीकृतनाभ्यावृतपद्मं पवनगतिकारकम् ।
 
मखानक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकं ‘अम्’ इत्यनुसारबोधकनाभ्यावृतपद्मं पाचकपित्तप्रतिपादकम् ।
१०
 
फल्गुनीनक्षत्ररूपं सप्तत्रिंशत्सिरावलम्बकवर्णज्ञापकवृषणद्वयपद्मं सप्तधात्वङ्कुरालवालपोषकम् ।
११
 
उत्तरफल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बखवर्णज्ञापकरोमराजिपद्मं विसर्जनरूपसुखहेतुकम् ।
१२
 
फल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकखवर्णज्ञापकस्वाधिष्ठानपद्मं सर्वाशयद्योतकम्[२]
१३
 
हस्तोडुरूपप्रतिपादकं सप्तत्रिंशत्सिराश्रितगवर्णज्ञापिदक्षिणपक्षपद्मं गर्भाशयकारकम् ।
१४
 
चित्रानक्षत्ररूपं सप्तविंशत्सिरावृतं घवर्णबोधकवामपक्षगतपद्मं परिपूर्णगर्भाशयकारणम् ।
१५
 
स्वातीताराप्रतिपादकं सप्तत्रिंशत्सिराधारकं ङवर्णज्ञापकं [३]दक्षिणहस्तपद्मं तत्तच्छरीरगतभिन्नस्वर[४]ज्ञापकम् ।
१६
 
विशाखानत्ररूपं सप्तत्रिंशत्सिरावलम्बकचवर्णद्योतकवामहस्तपद्मं स्त्रीपुंसस्वरभेदज्ञापकम् ।
१७
 
अनूराधानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं छवर्णद्योतकं दक्षिणभुजपद्मं ऊर्ध्वकायधारकम् ।
१८
 
रोहिणी[५]नक्षत्ररूपणं सप्तत्रिंशत्सिरावृतं वामभुजपद्मं ऊर्ध्वकायाधारकम् ।
१९
 
[६]विचितृ ऋक्षरूपं सप्तत्रिंशत्सिराधारकजवर्णद्योतकं दक्षिणबाहुपद्मं सर्वकर्मोपकारकम् ।
२०
 
आषाढऋक्षरूपं सप्तत्रिंशत्सिरावृतं झवर्णज्ञापकं वामबाहुपद्मं सर्वकर्मोपकारकम् ।
२१
 
आषाढनक्षत्रात्मकं सप्तत्रिंशत्सिराधारकं ञवर्णद्योतकं दक्षिणप्रकोष्ठपद्मं हस्तकौसल्यद्योतकम् ।
२२
 
श्रोणानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं टवर्णबोधकवामप्रकोष्ठपद्मं हस्तकौशल्यज्ञापकम् ।
२३
 
श्रविष्ठानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ठवर्णयोबोधकं दक्षिणपाणितलपद्मं सर्वार्थाभिनय (ज्ञानज्ञापक) ज्ञापकम् ।
२४
 
शतभिषक्-नक्षत्रात्मकं सप्तत्रिंशत्सिराधारकं डवर्णबोधकं वामपाणितलपद्मं सर्वार्थाभिनयज्ञान (ज्ञापकज्ञान) हेतुकम् ।
२५
 
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ढवर्णद्योतककण्ठपद्मं तत्तद्वर्णाश्रिततत्तत्स्वरभेदज्ञापकम् ।
२६
 
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं णवर्णद्योतकग्रीवापद्मं पञ्चप्राणाधारकम् ।
२७
 
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं तवर्णबोधकहृदयपद्मं इच्छाप्रयत्नात्मज्ञानहेतुकम्[७]
२८
 
रेवतीऋक्षरूपं सप्तत्रिंशत्सिरावृतं थवर्णबोधकं शिरःकमलात्मकपद्मं सहस्रसिराश्रितवर्णज्ञानज्ञापकम् ।
२९
 
षष्टिर्नाडिकानामहर्निशम् ।
३०
 
पञ्चदशाहः पक्षः ।
३१
 
पक्षद्वयं मासः ।
३२
 
मासद्वयमृतुः ।
३३
 
त्रिऋतु एकायनम् ।
३४
 
षडृतवो द्वादशमासास्संवत्सरः ।
३५
 
अश्विनी ज्वरः ।
३६
 
भरण्यतिसारः ।
३७
 
कृत्तिका ग्रहणी ।
३८
 
रोहिण्यर्शोविकारः ।
३९
 
मृगशीर्षमजीर्णम् ।
४०
 
आर्द्रा मन्दानिलः ।
४१
 
पुनर्वसू विषूची ।
४२
 
तिष्यमरुचिः ।
४३
 
आश्लेषा पाण्डुः ।
४४
 
मखा श्वासः ।
४५
 
फल्गुनी कासः ।
४६
 
फल्गुनी कुष्ठामयः ।
४७
 
हस्तो मेहः ।
४८
 
चित्ता कुक्षिरोगः ।
४९
 
स्वाती नेत्रामयः ।
५०
 
विशाखा कर्णरोगः ।
५१
 
अनूराधा नासिकामयः ।
५२
 
रोहिण्यपस्मारः[८]
५३
 
विचृतिः क्षयः[९]
५४
 
पूर्वाषाढा कुष्ठा[१०]श्मरीरोगः ।
५५
 
उत्तराषाढा कुष्ठ[११]छर्दिविकारकः ।
५६
 
श्रोणा हृदयामयः ।
५७
 
श्रविष्ठा पवनः ।
५८
 
शतभिषक् पित्तरोगः ।
५९
 
प्रोष्ठपदं कफामयः ।
६०
 
प्रोष्ठपदं मदात्ययः ।
६१
 
रेवती व्रणम्[१२]
६२
 
अश्विनीनक्षत्रविरुद्धगतिहेतुग्रहयुक्ततत्तत्कालानुगतरसाजीर्णजन्यामपित्तविषक्रिमिविकारकज्वराः प्रदृश्यन्ते ।
६३
 
अवर्णज्ञापकयावत्सिरानालावृतौषधयः ज्वरप्रकोपनिवर्तकाः ।
६४
 
अजीर्णजन्यामपित्तविषक्रिमिनिवर्तकं यत्तदेव भेषजम् ।
६५
 

{{rh|left=औषधिदानजपहोमदेवतार्चनं निवर्तकम् ।|right=६६

"यत्रौषधयस्समग्मत राजानस्समिताविव । विप्रस्स उच्यते भिषक् रक्षोहा अमीवचातनः"[१३]
६७
 
कटु[१४]रोहिकागणचोविर[१५]सविषपाषाणलोहपुटद्रव्यप्रयुक्तयोगास्तदामयनिवर्तकाः ।
६८
 
क्वचित्क्वाथयोगाः ।
६९
 
क्वचिच्चूर्णादयः ।
७०
 
क्वचित्तैललेहघृतादयश्च ।
७१
 
अश्विनीदेवतार्चनं तत्र भेषजम् ।
७२
 
तत्तन्नक्षत्रविगतियोगग्रहयुक्तकालसंयोगवशाज्जातज्वराः कष्टसाध्याः । निवर्त्यनिवर्तकज्ञानं यथायोगं तन्निवर्तकम् ।
७३
 
भरणिविगतियोगग्रहयुक्तकालसंयोगादतिसारामयाः प्रदृश्यन्ते ।
७४
 
इवर्णज्ञापकयावत्सिरानालावृततत्तदौषधियोगाः तन्निवर्तकाः ।
७५
 
यमदेवतार्चनं निवर्तकम् ।
७६
 
कृत्तिकाभाविरुद्धगतिजातग्रहयुक्तकालसंयोगवशाद्ग्रहणीरोगः प्रपद्यते ।
७७
 
उवर्णज्ञापकयावत्सिरानालाऋवृतौषधियोगकरणं ग्रहणीरोगनिवर्तकम् ।
७८
 
अग्निदेवताप्रार्थनविधिः निवर्तकः ।
७९
 
रोहिणीऋक्ष विगतियोगजातग्रहयुक्तकालसंयोगवशादर्शारोगप्रवृत्तिः ।
८०
 
ऋवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं अर्शोरोगनिवर्तकम् ।
८१
 
प्रजापतिदेवताप्रार्थनं तत्र भेषजम् ।
८२
 
मृगशीर्षविरुद्धगतियोगजातग्रहयुक्तकालसंयोगवशादजीर्णामयाः प्रपद्यन्ते ।
८३
 
लृर्णबोधकयावत्सिरानालावृतौषधियोगकरणं अजीर्णामयनिवर्तकम् ।
८४
 
सोमदेवताप्रार्थनादिकं निवर्तकम् ।
८५
 
आर्द्रानक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात् मन्दानलरोगः प्रवर्तते । ए ऐ वर्णज्ञापकयावत्सिरानालावृतयावन्निवर्तकद्रव्यं मन्दानलभेषजम् ।
८६
 
तत्तद्दुरितनिवर्तकयावत्प्रायश्चित्तरूपरुद्रदेवताप्रार्थनं विधिः ।
८७
 

इत्यायुर्वेदस्य चतुर्दशः प्रश्नः समाप्तः.


  1. रतिसुखकारकम्--C.
  2. तृतीयं फल्गुनीनक्षत्रमिदमधिकमिति भाति.
  3. हस्तद्वयपद्मं--A&C.
  4. सर्वA&C.
  5. रोहिणीति ज्येष्ठानक्षत्राय नामान्तरम् वर्णविन्यासस्तु नकृतः
  6. विचृतिः इ वेदे. तै. सं. IV. 4, 10.
  7. तृतीयमिदं प्रोष्ठपदानक्षत्रमधिकमिति भाति.
  8. ज्येष्ठारोह्यपस्मारः--A.
  9. मूलं विद्रधिः क्षयः--A. मूलं विधृतिः क्षयः--C.
  10. अत्र रोहिणी विचृतिरिति ज्येष्ठामूलयोर्वेदिके नामधेयेऽजानता लेखकेन ज्येष्ठामूले सूत्रयोः प्रक्षिप्य रोहिणीविचृतिशब्दौ रोगबोधकाविति वर्णव्यत्यासेन लिखिताविति भाति.
  11. अष्ट--A&C.
  12. श्रवणम्--C. स्रवणम्--A.
  13. ऋग्वेद X 97, 6.
  14. कउ--A & C.
  15. चविरस--Dr. B.S.