स्रोतः पुराजनि ॥' इति, ‘खभावोकिः स्वभावय जात्यादिस्थस्य वर्णनम् । कुरधैः गुरुतरङ्गाक्षैः स्त्रग्धकणैरुदीक्षितम् ॥' इति च । शिखरिणी वृत्तम् । तल्लक्षणंतूरूमेवाधस्तात् । अथ निरुक्तस्वनिर्वेदेन शिष्यमुखं म्लानमिवालक्ष्य तं प्रोत्साहयितुं बकुला न्योज्या तदुणवर्णनं ध्वनयति--
दधानः प्रेमाणं तरुषु समभावेन विपुलां |
दधान इति । तरुषु खमभावेन समानदृध्या प्रेमाणं दधानोऽत एवासौ मालकारो यद्यपि बालबकुले नूतनबकुलद्रुमे विपुलां करुणां नकृत नैव चकार । तथापि तु पुनरयं द्रक्शीघ्रम् । ‘द्राक्षु सपदि द्रुतम्' इत्यमरः । उद्यदिति । आविर्भवत्पुष्पगुच्छानां परिमलैः सुगन्धैर्दिगन्तान्। मधुपेति पुष्पंधयनिचयगुज़ रवपूरितानेतादृशाना।तेने विस्तारयामासेति संबन्धः । इह ललितो नायकः । वीर एव रसः। असंभवोऽप्यलंकारः । तदुक्तम्-‘असंभवोऽर्थनिष्पत्तेरसंभाव्यख वर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ' इति ॥ तत्राप्येकः काम एव तव शत्रुर्जेतव्य इति वृक्षपर्यन्योक्तया ध्वनयति
मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं मांसला |
मुलमित्यादि। हे तरुपते । वृक्षाणां पतिः श्रेष्ठस्तत्संबुद्धौ। भो वृक्षराजेत्यर्थः। अत्र तजातिविशेषस्याकथनात्तच्छद्मनापदेश्ये अद्यावध्युत्तमखादिजात्यनिर्णयाद- प्रौढत्वं व्यज्यते। यतस्तव मूलमतीवात्यन्तमेव स्थूलं महत्तरम् । तथा बन्धनदृढं बन्धनं भूमेरन्तर्गते महापाषाणादौ वेष्टनं तेन दृढमचलं चास्तीत्यर्थः । एतेन चक्रवातादिभीत्यपनुतिः सूचिता। एवं शाखाः स्कन्धत्वेन प्रसिद्धास्ताः शतं नतु