पृष्ठम्:भामिनीविलासः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
अन्योक्त्युल्लासः ।

आतपः' इत्यमरास्प्रकाशो यस्य स तथा। सूर्य इत्यर्थः। दुःसहो ग्रीष्मकालिकत्वेन स्रोतुमशक्योऽस्तीति यावत् । एवं धन्वनि। ‘समानौ मरुधन्वानौ’ इयमरान्मरुदेशे चम्पकस्य । सकले संहारेऽपि । ध्वंसकारणे सत्यपीत्यर्थः। त्वममृतेन । 'पयः कीलालममृतम्’ इत्यमराजलेन । पक्षे पीयूषेण। सिञ्चनप्लावयन् । एतादृशो वेधसा ‘स्रष्टा प्रजापतिर्वेधाःइत्यमराष्ट्रह्मणा कुतोऽप्यस्यादृष्टाद्धेतोः। आविष्कृतः प्रकटीकृतोऽसीति संबन्धः । अतस्त्वल्लभ एव पुमर्थ इत्याशयः । इहोतावेव नायकरतिभावौ । प्रहर्षणमप्यलंकारः । शार्दूलविक्रीडितं वृत्तं तूक्तमेव ॥

 एवं स्तुतिमाकर्यं निर्विण्णः श्रीगुरुः ‘किमनया स्तुत्या । यदुक्तम्-‘अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम् । सद्यो न रोचते सा सन्तोऽप्ययै न रोचन्ते ॥’ इति । किंच ‘येषां निमेषमात्रेण जगतः प्रलयोदयौ । तादृशः पुरुषा याता मादृशां गणनत्र का ॥’ इति वचनादलमस्मदीयस्तवेन” इति द्योतयन्म हानुभावशरीरनाशमनुसंधाय सिंहान्योक्त्या शोचति--

न यत्र स्थेमानं दधुरतिभयभ्रान्तनयना
गलहानोद्रेकभ्रमदलिकदम्बाः करटिनः।
लुठन्मुक्ताभारे भवति परलोकं गतवतो
हरेरद्य द्वारे शिवशिव शिवानां कलकलः ॥ ३० ॥

 न यत्रेति । यत्र हरेद्रे। गलदिति । गलावद्यद्दानं मदोदकं तस्योद्रेकेण बाहुल्येन भ्रमन्ति अलिकदम्बानि भ्रमरवृन्दानि येषु ते तथा। न तु साधारणाः । एतेन मदोन्मत्तत्वं सूचितम् । एतादृशः करटिनः। उक्तार्थमिदं प्राक् । गजेन्द्रा इत्यर्थः । अतीति । अतुलभीतिचकितलोचनाः सन्त इति यावत्। स्थेमनं स्थिरीभावं न दधु नैव बभुरित्यन्वयः। तत्र परलोकं खर्गादिलोकान्तरं गतवतः। जगामेति गतवांस्तस्य पञ्चत्वं प्राप्तस्येत्यर्थः । एतादृशस्य हरेः। ‘हर्यक्षः केसरी हरिः' इत्यमरासिंहस्य। लुठदिति । लुठन्ति श्वापदपादैः प्रचलन्ति ते तथा मुक्तानां विदारितमतङ्गज गण्डस्थलजात मौकिकानां भाराःप्रचुरनिकरा यस्मिस्तत्तथा । एतादृशे द्वारे दरीमु-खेऽद्य । शिवशिवेति खेदाद्भगवन्नमस्मरणम् । शिवानां कोष्ट्रीणां कलकलः कोलाहलो भवतीति योजना । तस्मान्नश्वरमेवेदमखिलं दृश्यवैभवामिति भावः । इहो दात्तो नायकः। वीरकरुणभयानकशान्ता रसाः । पर्यायस्वभावोक्ती अलंकारौ तदुक्तम्-एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि संमतः । अधुना पुलिनं तत्र यत्र