एवमलौकिकपाण्डित्येऽपि पुरुषेण तावद्गर्वः स्वप्नेऽपि नैव कर्तव्यः, किंतु ‘श्रुतं प्रज्ञानुगं यस्य यस्य प्रज्ञा श्रुतानुगा । असंभिन्नार्थमर्यादः पण्डिताख्यां लभेत सः ॥’ इति महाभारतोक्तपाण्डित्यरीतिमतैव भाव्यम्, नो चेद्दुर्वारदुःखापत्तिः स्यात् । गर्वापादकख्यातिलाभपूजादिप्रयोजनस्य पण्डित्यस्य ‘क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥' इति वचनात्तत्साध्योपभोगानां नश्वरत्वात्तथा प्रतिक्षणमनुभवाच्च। अत एवाहुः— ‘वेदाभ्यासात्पुरा तापत्रयमात्राश्च शोकिता । पश्चादभ्यासविस्मारभङ्गर्वैश्च शोकिता ॥ इति । तस्मात्पाण्डित्याभिमानो नैव विधेय इति तात्पर्यं राजहंसान्योक्त्या द्योतयति--
पुरा सरसि मानसे विकचसारसालिस्खल- |
पुरेति । इयं हि सार्वभौमाश्रितोऽप्ययं सूरीश्वरस्तद्विरहाद्यतो निराश्रयस्ततोऽद्य क्षुद्रशूद्राद्याश्रयेण तिष्ठत्विति धनयौवनाद्युन्मादेन वदन्तं कंचित्प्रति कस्यचिदभिज्ञस्योकिः । रे इति नीचसंबोधने । यस्य पुरा प्राङ् मानसे मानसाह्वये सरसि सरोवरे । विकचेति । विकचानि प्रफुल्लानि यानि सारसानि ‘सारसं सरसीरुहम्’ इत्यमरात्कमलानि, तेषामालिः पङ्क्तयस्तस्याः सकाशात्खलन्तश्च्यवन्तो ये परागाः पुष्परेणवस्तैः सुरभि सुगन्धि यथा संपेदे तथा कृतं तस्मिन्नित्यर्थः । एतादृशे पयसि जले यस्य वयो यातम् । तारुण्यमतिक्रान्तमिति यावत् । ननु सारसानामालिः पङ्क्तिरिति त्वयोक्तम् । सा च संयोगविशेष एव । एकताननिकटसंगयोस्यैव तादृशकिंचिद्विरलसामानाधिकरण्यद्वारकसंयुक्तसंयोगस्य वा ‘भुक्ता पङ्क्तिर्विप्रपङ्किः’ इत्यादौ तच्छक्यताया दृष्टत्वात् । तस्य च गुणत्वात्परागरूपद्रव्यस्य ततः स्खलनवर्णनमनुचितमेवेति चेन्न । आद्ये ‘वर्षत्यम्बुदमालेयम्’ इत्यादिवत् , द्वितीये ‘द्विजपङ्क्तिभुजे’ इत्यादिवच्च संबन्धविशेषकल्पनया निरूढलक्षणया वोपपत्तेः । एतेन ‘चकोरीगणे'(१।३) इत्यादि व्याख्यातम् । एवं चैतादृशस्यापि पण्डितवरस्य पाण्डित्याभिमानेन संपादितभोगक्षये जाते नीचाश्रयोऽप्यधुनानेन कार्य इति पामरेणापि बोध्यते खण्ड्यते चेतरेण । तथापि भोगाभावस्तु नैव हृत इति धिक्पाण्डित्याभि मानमित्याशयः । सः । मरालेति । मराला हंसाः । अत्र मरालपदस्य हंसे शक्तिग्रहस्तावन्मानसादिसिद्धपदसांनिध्यादेव । तदुक्तम्-‘शक्तिग्रहं व्याकरणोपमान-