दात्तो नायकः । पञ्चमे तु कितवः । परकीयाः प्रगल्भाः सौन्दर्यगर्विता विप्रलब्धा नायिकाः । अप्रस्तुतप्रशंसा श्लेषः काव्यलिङ्गं परिकरः परिकराङ्कुरः संकरश्चालंकाराः । एतेषां लक्षणानि तु सोदाहरणमुक्तानि कुवलयानन्दकारिकासु-- अप्रस्तुतप्रशंसास्यात्सा यत्र प्रस्तुताश्रया । एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥ नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयात्मकः । सर्वदो माधवः पायात्स यो गङ्गामदीधरत् ॥ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना । उच्चद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् । जितोऽसि मन्द कंदर्प मचित्तेऽस्ति त्रिलोचनः ॥ अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु नः शिवः ॥ साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥” इति । संकरलक्षणं तूक्तं कुवलयानन्द एव--- ‘नीरक्षीरन्यायेनास्फुटमेदालंकारमेलने संकरः' इति । एवं रसादिलक्षणान्यपि मदीयसाहित्यसारतो ज्ञेयानि । विस्तरभयात्तानि नेह प्रपञ्च्यन्ते । अत्र यद्यपि अन्योक्त्याद्युक्तरसापेक्षयाप्रस्तुतप्रशंसाद्यलंकारस्यैवाधिकचमत्कारकारित्वेन प्राधान्यादस्यार्थचित्राख्यमध्यमकाव्यत्वेऽपि निरुक्तालंकारापेक्षयापि तद्व्यञ्जितयुद्धवीरस्यैवाधिक्येनाह्लादजनकत्वाद्ध्वनिसंज्ञकोत्तमोत्तम काव्यत्वमेव ज्ञेयम् । अयं काव्यभेदस्तु रसगङ्गाधरराख्यैतद्रन्थ एव प्रसिद्धः । तदिहान्योक्त्याख्यप्रथमोल्लासे नीत्युपदेशात्ससाधनयोर्धर्मार्थयोः प्रतिबोधनम् । नीतिमत एव धर्मार्थयोः संभवात् । द्वितीये शृङ्गारोल्लासे तु स्वकीयाया नायिकायाः संवर्णनेन ‘धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ' इति स्मृतेस्तादृशस्य तस्योपपादनम् । अवशिष्टोल्लासद्वये तु ससाधनस्य मोक्षस्यैव प्रबोधनमिति । न च वेदेनैव धर्माद्यखिलपुमर्थोपदेशस्य ससाधनं विस्तरतः कृतत्वात्किमनेन पौरुषकाव्येनेति चेत्सत्यम् । तस्यार्थित्वादिविशेषणविशिष्टाधिकारिविषयत्वात् । यथाहुः--‘अर्थी समर्थों विद्वाञ्शास्त्रणापर्युदस्तो यजेत याजयेत्' इति । उपलक्षणमिदं सामान्यतो यावद्वेदार्थग्रहणतदनुष्ठानादेः । तस्माद्ये तावद्वेदाद्यर्थश्रवणादितः प्रभुसंमितोपदेशत्वादिना समुद्विजन्ति तथा पुरुषार्थमप्यभिवाञ्छन्त्येतादृग्विषयिजनैकविषयत्वादस्य काव्यादेर्नैव नैरर्थ्यशङ्कापीति ध्येयम् । एवं चात्र विषयित्वे सति पुमर्थेच्छवोऽधिकारिणः । व्यञ्जनया पुमर्थचतुष्टयबोधनं विषयः । तत्प्राप्यानर्थनिवृत्तिः प्रयोजनम् । व्यङ्ग्यव्यञ्जकभावः संबन्धश्च सिद्धः । अत्र शिखरिणीवृत्तम्-- ‘रसै रुदैश्च्छिन्ना यमनसभला गः शिखरिणी' इति वृत्तरत्नाकरोक्तेरिति शिवम् ॥
पृष्ठम्:भामिनीविलासः.djvu/१२
दिखावट