पृष्ठम्:भामिनीविलासः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
6
भामिनीविलासे

कोशाप्तवाक्यव्यावहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥” इति। मदीये साहित्यसारेऽपि ‘रौत्याम्रे पिकः' इत्यादौ प्रसिद्धपदसंनिधेरिति । तेषां कुलं वंशस्तस्य नायकः, तत्र वा नायको धुरीण इत्यर्थः । मिलदिति । मिलन्तः समुच्चयीभवन्तो येऽनेके भेका बहवो मण्डूकास्तैराकुलं व्याप्तं तत्रेति यावत् । एतादृशे । पल्वलेति । ‘वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका' इत्य‘मराक्षुद्रसरोवारिणीत्यर्थः। अधुनाद्य कथं वर्ततां कथं निवसतामिति कथयेत्यन्वयः। तस्मादत्रैतद्वर्तनमनुचितमेवेति भावः । अन्योक्तिस्तूक्तैव । अत्रोदात्तो नायकः। करुणो रसः । अप्रस्तुतप्रशंसालंकारस्तु प्रायो यावदुल्लाससमाप्ति साधारण एव । इह काव्यलिङ्गमपि । पृथ्वीवृत्तम् । तदुक्तम्-- ‘जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः'इति॥

 एवं निजैश्वर्यमदेन कस्यापि प्रभावापह्नवेन केषांचिदप्याशोच्छेदो नैव कर्तव्य इति विधात्रन्योक्त्या ध्वनयति--

तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे
मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति ।
माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः ॥३॥

 तृष्णेति । इयं कंचिदपूर्वगुणगणैः सर्वजनसंतोषणनिपुणस्यापि नवाभ्युदयमुपगच्छतो निजदुर्गुणाभासैः परिभावकं प्रति कस्यचिद्गुणज्ञशिरोमणेरुक्तिः । हे धातः अयि चतुरानन । तृष्णालोलेति । तृष्णया पिपासया लोलानि चपलानि विलोचनानि नेत्राणि यस्य तस्मिन् । एतादृशे चकोरीगणे, न तु चकोरकुले । एतेन करुणायोग्यत्वं व्यज्यते । प्राचीं पूर्वदिशम् । तत्रैव चन्द्रस्योदितत्वसंभवात् । कलयति पश्यति सतीत्यर्थः । किं चेति समुच्चये । तथेति यावत् । कैरवेति । ‘सिते कुमुदकैरवे' इत्यमरात्कुमुदवृन्द इत्यर्थः । मौनं मुकुलीभावं मुञ्चति । त्यजति सतीत्यर्थः । विकसति सतीति यावत् । एवं कामे मदने धनुर्मल्ल्यादि पौष्पं चापं धुन्वति भ्रमरविरुतलक्षणटणत्कारेण कम्पयति सतीत्यर्थः । न केवलमेतावदेव तिर्यङ्मात्रोपकरणम्, अपि तु मनुष्योपकारित्वमपि भूरितरं तत्रेति द्योतयति-- मान इति । मानवतीति । रूपाद्यभिनिवेशशालिसुन्दरीवृन्दस्येत्यर्थः । माने निरुक्तगर्वे । न चात्र मानपदार्थपौनरुत्यम् । मानवतीयत्र मानं पद्मिन्यादिलक्षणप्रतिपादकं शास्त्रं प्रमाणं विद्यते यासु विषये तास्तथेति व्युत्पत्तेर्विवक्षितत्वात्तासामेव रूपाद्यभिमानस्य दुरुत्सार्यत्वात्तत्संकरजातीनां तु तादृग्रूपवत्त्वासंभवेन यौवनैकमहिम्ना