पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
तृतीयोऽङ्कः

परित्यजाम सन्ततं दुःखेन मदनेन च ।
सुहृज्जनमुपाश्रित्य यः कालं नावबुध्यते ॥ ७ ॥

 विदूषकः-(क) एव्वं एव्व जरं गमिस्सामो ।

 यौगन्धरायणः तन्ननु क्ष्लध्यम् ।

 विदूषकः--(ख) सिळायणीओ भवे, जदि छोओ जाणादि ।

 यौगन्धरायणः- न नः कार्यं लोकेन, स्वामिप्रियार्थोऽयमारम्भः ।

 विदूषकः-(ग) सो वि दाव ण जाणादि ।

 यौगन्धरायणः—काले ज्ञास्यति ।

 विदूषकः-(घ) कदमो दाणि स काळो ।


 (क) एवमेव जरां गमिष्यामः ।

 (ख) क्ष्लाघनीयं भवेद् , यदि लोको जानाति ।

 (ग) सोऽपि तावन्न जानाति ।

 (घ) कतम इदानीं स कालः ।


 परीति । दुःखेन बन्धनव्यसनेन । मदनेन मन्मथेन च । सन्तप्तं, स्वामिनं । परित्यजाम, इह काक्का न परित्यजामेत्यर्थः । सन्तप्तस्य सन्तापप्रशमने विधेये परित्यागं कथं शङ्कस इत्यभिप्रायः । सन्तापस्योन्मूर्च्छितत्वं व्यक्तुं तत्कार्यमाह--यः , सुहृज्जनमुपाश्रित्य कालं नावबुध्यते, सुहृज्जनवाक्यमनुसृत्य कालानुगुणं कर्म कर्तुं न जानाति, अर्थात् सन्तप्तत्वादेव ॥ ७ ॥

 स्वाम्युपेक्षपप्ते प्रतिक्षिप्ते पूर्व यौगन्धरायणेनोक्तं पक्षं तङव्यर्थमाह--एव्वमित्यादि । एवम् अनेनैव वेषेण ॥

 तदित्यादि । तत् एवंद्धरागमनम् ॥

 सिळाघेत्यादि । यदि जानाति, अर्थाज्जरागमनम् । प्राकृते लिङ्गाद्यानियमः ॥

 नेत्यादि । आरम्भः अत्माकं प्रयत्नः स्वामिप्रियार्थः, नतु लोकप्रीत्यर्थः ॥

 सो वीत्यादि । सोऽपि स्वाम्यपि ॥

 काळ इति । काले समये शस्यति , अर्थात् स्वामी ॥

 कदमो इत्यादि ॥