शक्ता दर्पयितुं स्वहस्तरचिता भूमिः कटप्रच्छदा |
विदूषकः-(क) भो ! दंसिदो । सिणेहो । णिव्विवट्टं पुरुसआरं । साहु उज्झिअ णं गच्छामो ।
यौगन्धरायणः- वसन्तको भवान् ननु । वसन्तक ! मा मैवम् ।
(क) भोः ! दर्शितः स्नेहः। निर्विष्टः पुरुषकारः । साधूज्झित्वैनं गच्छामः।
शक्ता इति । स्वहस्तरचिता भक्तिमत्परिचारक विरहात् स्वहस्तेनैव संविहिता । कटप्रच्छदा तृणमयास्तरणा नतु राजाईदुकूलहंसतूल शयनाद्यास्तरणा। भूमिः उपवेशसंवेशदेशः । दर्पयितुं म दयितुम् अर्थाद् स्वामिजातीयं पुरुषं । शक्ता समर्थेति काकुः । वस्तुतोऽशक्त्ताप्यस्मदभाग्याच्छक्त्ता जातेत्यभिप्रायः । चरणयोः निगलत्वन, कन्दर्पम् आलम्बितुं काममालम्बयितुं । पर्याप्तः शक्रः । पूर्ववदिह काकुश्वाभिप्रायश्च । बन्धने कारागृहे रक्षार्थे परिगण्यमानपुरुषेः परिगण्यमानैः पुरुवैः, निगलितजनरक्षणकर्मनियुक्त्तैः परिमितैः प्रद्योतदासैरत्यर्थः । राजेति, शब्दापनं व्रीडावहम् आह्वानं । प्रत्यक्षतः श्रुत्वा सश्चादाकण्यै । को हि , निगलितः पुमानिस्यार्थम् । मन्मथपटुः मन्मथः श्रीविषयं चापलं तस्मिन् पटुः व्यग्रः । न भवेत् सर्वोऽपिः भवेदित्युपहासेऽत्र काकुः । वस्तुतो न कोऽपि भवेदिति लोकस्थितावस्मदभाग्यात् स्वामी तथाविधे भवतीत्याश्चर्यमिति भावः ।
भो इत्यादि । भो इति विषादे । स्नेहः स्वामिभक्तिः। दर्शितः अर्थादस्माभिः। पुरुषाकरः निएविष्टः प्रयत्नो यावच्छाक्ति कृतः । स्वामिविषयेऽस्माकं कर्तव्यं न किञ्चिदवशिष्यते इत्यर्थः। कुतस्य स्वामिदोषेण वैफल्यं कर्तव्यस्य चानवशेषणं मन्यमान आह--साधु ,एनम्- उज्झित्वा गच्छामः , इतः परं अविधेयं स्वामिनं परित्यज्य गमनमेवास्माकं युक्तमित्यर्थः ॥
लोकेतरभक्त्यौदार्यसदृशमाह--वसन्तक इत्यादि । वसन्तको ननु स्वाम्यातिभक्तो न किम् । इह वसन्तकपदं स्वाम्यतिभक्ते लाक्षणिकमू । मा मा एवं, नादीरिति शेषः ।