पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 यौगन्धरायणः-यदेयमारम्भसिद्धिः ।

 विदूषकः--(क) तदो तादिसो भवं बन्धणादो राआणं अन्तेउरादो । राअदरेअं उभे णिय्यादेदु ।

 रुमण्वान्- इह भवता द्रष्टव्यम् ।

 यौगन्धरायणः-उभयमिति । बाढम् । इयं द्वितीया प्रतिज्ञा-

सुभद्रामिव गाण्डीवी नागः पद्नलतामिव ।
यदि तां न हरेद् राजा नास्मि यैौगन्धरायणः ॥ ८ ॥

अपि च,

यदि तां चैव तं चैव तां चैवायतलोचनाम् ।
नाहरामि नृपं चैव नास्भि थैगन्धरायणः ॥ ९ ॥


 (क) ततस्तादृशो भवान् बन्धनाद्राजानमन्तःपुराद्राजदारिकामुभे निर्यातयतु ।


 यत्रेत्यादि । अरम्भसिद्धिः स्वामिकौशाम्बीप्रापणप्रयत्नस्य फलप्राप्तिः । एतेन, स्वाभिन्थविधेयेऽपि स्वप्रयत्नस्य यावत्फलोदयमनुवर्तननिर्बन्धः सूचितः ॥

 तदा इत्यादि । तादृशः स्वप्रयत्नफलदर्शनाभिनिवेशी। निर्यातयतु हरतु । एवं हि द्वावपि युवां धन्यौ भविष्यथ इति भावः ॥

 इहेति । इइ वसन्तकोपभ्यस्तेऽर्थे । भवता, द्रष्टव्यं विमर्शनीयं न तूदासितव्यमित्यर्थः ॥

 उभयमिति । उभयमिति कार्यद्वयं साध्रनीयमिति । युवां मन्येथे इति शेषः । बाढं युष्मन्मतमङ्गीकरोमि । प्रत्ययदाढर्यार्थमाह--इयं वक्ष्यमाणा । द्वितीया । प्रतिज्ञा ।

 सुभद्रामिति । सुभद्रां गाण्डीवीव श्रीकृष्णभगिनीम् अर्जुन इव । पझलतां नाग इव नलिनवल्लीं गज इव । राजा, तां वासवदत्तां । यदि न हरेत् , अहं यौगन्धरायणो नास्मि न भवामि ॥ ८ ॥

 प्रतिज्ञासमष्टिमाह--यदीति । तां चैव घोषवतीं च । तं चैव नलगिरिं च । आयतलोचनां तां चैव वासवदतां च नृपं चैव वत्सराजं च । नाहरामि यदि प्रद्योतसकाशादाह्रत्य कौशाम्बीं न प्रापयाभि चेदित्यर्थः । तर्हि, यौगधराय-