पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
तृतीयोऽङ्कः ।

भविस्सदि । सो वि समिद्धो होदु । एसो उम्मत्तओ अग्गिगिहं अहिमुहो गच्छइ । ट्ठिदो मज्झहूणो । पुव्त्रहणे वि दाव अअं देसो सुञ्ञो भविस्सदि । जाव अहं वि इमाणि दक्खिणामासआणि मग्गगेहे णिक्खिविअ गच्छामि । एकस्स शाडिआए कय्यं अवरस्स मुळ्ळेण ।

(सर्वे अलिगृहं प्रविशन्ति ।)


प्रतिग्रहीतानि । तानि भवतोऽप्युपायनं भविष्यति । सोऽपि समृद्धो भवतु । एष उन्मत्तकोऽग्निहमभिमुखो गच्छति । स्थितो मध्याह्नः। पूर्वाह्णोऽपि तावदये देशः शून्यो भविष्यति । यावदहमपीमान् दक्षिणामाषकान् मार्गगेहे निक्षिप्य गच्छामि । एकस्य शाटिकया कार्यमपरस्य मूल्येन ।


हीतानि प्रतिग्रहलब्धानि मोदकानि । तानि उपायनं तदूपं मोदकरूपम् उपायनम् उपदा । भवतोऽपि भविष्यति, यथा तद्रूपम् उपायनं कौडुम्बिकदत्तं मम पूर्वं भूतं, तथा मद्दत्तं तवापि भविष्यति । सोऽपि समृद्धो भवतु । कौडुम्बिकोऽपि स्वद्रव्यस्य मन्मुखेन त्वयि सत्पात्रे विनियोगसिद्धया कृतार्थो भवतु । अपिशब्दादहं च कृतार्थो भवानि। इति बाह्योऽर्थः। मन्मनोगुप्तैः खन्देशैः क्ष्रावितैस्स्वां प्रीणयिष्यमि । ते हि सन्देशाः अत्मत्स्वामिसकाशाद् मया प्रतिग्राह्यद्रव्यवत् प्रीतिपूर्वे गृहीताः ; श्रुताश्च मन्मुखाद् उपदापदार्था इव प्रमोदावहस्तव भविष्यन्ति । अस्मत्स्वामी च युवयोरुभयोरनुकूलवृत्तया निर्विन्घसंसिद्धमनोरथो भूयादिति आभ्यन्तरोऽर्थः ।

 एसो इति । एष उन्मत्तकः । अभिमुखः मकार्यानुकूलः । अग्निगृहं गच्छति , पाकशीतापनयनाद्याग्नेयकर्मार्हे गृहम् अग्निगृहं तत् प्रविशति । मध्याह्नः , स्थितः निष्पन्नः। अयं देशः प्रदेशः । पूर्वाह्णेऽपि तावत् शून्यो भविष्यति, सौम्ये पूर्वाह्रसमयेऽपि रक्तचामुण्डासन्निधानभयादसन्निहितजनो भविष्यति, किं पुनरुग्रातपदुरासदे मध्याहे । एवञ्च चोरभयरहितो मन्त्रयोग्यश्चायं देशकाल इत्यभिप्रायः । अत एवाह--अहमपि इमान् दक्षिणामाषकान् मार्गगेहे अर्थात् पुरोवर्तिनि, निक्षिप्य यावद् गच्छामि अग्निगृहं गमिष्यामीति बाह्योऽर्थः । इमान् दक्षिणामाषकान् स्वामिसन्देशान् मार्गगेहे मार्गाणाम् उपायानां गेहे निकेतनभूते, अर्थात् सर्वविघोपायाचिन्तनप्रयोगनिपुणे यौगन्धरायणे । निक्षिप्य ’ यावद् गच्छामि इत्याभ्यन्तरः । दाक्षिणामाषकक्ष्चात्मप्रयोजनाय रक्षणीया इयप्रस्तुतप्रशंसाभञ्जयाह -- एकस्य शाटिकया चस्त्रेण कार्ये, शाक्यभिक्षोर्बुभुक्षोर्मोदकेन प्रयोजनम् । अतो मोदकं तस्मै दास्यामि