पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
प्रतिज्ञायौगन्धरायणे सव्याख्याने

 विदूषकः---(क) एस उम्मत्तओ एदेण ईहामत्तएण समणएण उज्झिदं सावं पेक्खिअ मोदअमळ्ळअं भीदभीदं अग्गङगुळिआए पसरिदाए ठाविअ चिट्टइ । भो उम्भत्तअ | आणेहि मम मोदअमळ्ळअं ।

 क्ष्चमणकः--(ख) एदु एदु भवं । एदेहि मोदएहि मं सोत्थि वाअइस्सासि ।

 विदूषकः-(ग) हीही ममकेरएहिं सोस्थि वाएमि । मए वि कोडुम्बिअस्स हत्थादो पडिग्राहगहीदाणि । ताणि भवदो वि उवाअणं


 (क) एष उन्मत्तक ऐतेनेहामात्रकेण श्रमणकेन उज्झितं शापं प्रेक्ष्य मोदकमल्लकं भीतभीतमग्राङ्गुल्यां प्रसारितायां स्थापयित्वा तिष्ठति । भो उन्मत्तक ! आनय मम । मोदकमल्लकम् ।

 (ख) एतु एतु भवान् । एतैर्मोदकैर्मां स्वस्ति वाचयिष्यसि ।

 (ग) हीही मदीयैः स्वस्ति वाचयामि । मयापि कौडुम्बिकस्य हस्तात्


न्धता यौगन्धरायगेन मद्विषये प्रकाशितं भैरवभिति पश्चान्तरे ॥

 एसो इत्यादि । उज्झितं दत्तं । शेषं स्पष्टम् । ‘एसो उन्मत्तओ’ इत्यस्य स्थाने ‘अघं बह्मणभावं' इति क्कचित् पठ्यते । आभ्यन्तरार्थस्तु—एष यौगन्धरायणो रुमण्वद्वाक्यबहुमानान्मह्यं मन्त्रावसरं दातुं दानोन्मुखकराइगुल्यग्रगतभिव सज्जं कृत्वा तिष्ठतीति । अप्रत्याख्यानानिश्चयात् पुनरर्थयते -भो उम्मत्तअ इत्यादि ॥

 गृहीतमोदकं प्रत्याह --एदु इति । भवान् एतु एतु आगच्छागच्छ । यातु यात्वित्यहृद्यः क्कचित् पाठः। एतैः मोदकैः करणै:, मां स्वस्ति वाचयिध्यसि मया स्वस्ति व्याहरयिष्यसि । मुष्टमोदकदर्शयित्रे मह्यं तानिमान् मोदकान् उपायनीकृत्य मां ‘स्वास्ति तेऽस्तु’ इत्याशिषं ब्रुवन्तं प्रयोजयेत्यभिप्रायः । ‘सोबत्थि बाएहि’ इति लोडन्तमेव क्कचित् पठ्यते । स एष बाह्योऽर्थः । एह्येहि । त्वरितोऽस्मि मन्त्रं रचयितुं । भोदकैः मां स्वस्ति वाच्य स्वामिसन्देशैः श्रावितैर्मो प्रीणय । प्रीतो हि प्रीतिविधायिने स्वस्ति वक्तीति स्वास्तिवाचनेन प्रीणनमिह लक्ष्यते । इत्याभ्यन्तरः ॥

 हीति । हीशब्दकः सन्तोषे । मदीयैः मम स्वभूतैर्मोदकैः । स्वस्ति वाचयामि । स्वरवे निमित्तमाह---मयापिं, कौडुम्बिकस्य गृहस्थस्य । हस्तात् प्रतिग्रहगृ-