४
६. ते चोराः कंचित्कालं गुहायामेव तस्थुः । तावत्तु स दारुभेदको वृक्ष एवाशरणे स्थितः । यतोऽसौ चिन्तयामास- अहं चेदधुनैव वृक्षादवरोहेयं, ते चोराः, अनपक्रान्त एव मयि, कदाचिद्वहिरागच्छेयुः, मां च दृष्टमात्रं गृण्हीयुः इति । अथ केनचित्कालेन द्वारमपावृतम् । तेन च प्रथमं नायको बहिराजगाम । द्वारदेशे च स्थित्वा गोणीपाणीन्सर्वानपि सहचरान्बहिर्निःसरतो ददर्श । ततश्च पद्यमेतदपाठीत्-
स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । |
पठितमात्रेऽस्मिन्पद्ये गुहाद्वारं स्वयमेव संवव्रे । पूर्वमिवैतदपि पद्यमलिपर्वा स्फुटमाकर्णयत् । तूष्णीं चावर्त्य कण्ठगतमप्यकरोत् ।
७. अथ सवें तुरंगसादिनः, स्वतुरगानपनीतमुखस्यूतान्वल्गायुतानारोपितगोणिकान्विश्लिष्टगुल्मबन्धांश्च विधाय, समारोहन् । एवं सर्वान्गमनोद्यतानालोक्य स नायकस्तांश्चकर्ष । क्षणेन च तैः सह चक्षुर्विषयमतिचक्राम ।
८. एवं तिरोहितांस्तान्वीक्ष्य स काष्ठकर्तनः समाशश्वास । स्वनिलयं तु सहसा न तत्याज । स हि शशङ्के- सद्य एवावतरेयं चेत्, ममापक्रमणात्प्रागेव, कदाचिद्विस्मृतं किमपि वस्तु नेतुं चोरः कश्चन निवर्तेत, दृष्टमात्रं च मां बन्दीकुर्वीत–इति । अतः स कंचित्कालं तथैव निलीनः स्थितः ।
९. यत्पद्यं पठित्वा चोराधिपो द्वारमपात्रवार तत् , यच्च पठित्वा तत्संधवार तत्, उभे अपि स सम्यक्सस्मरें । चिन्तयामास च-- । अपि ।