पृष्ठम्:चोरचत्वारिंशीकथा.djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते ।
नराः खादन्ति चान्योन्यं सर्वथा धिगराजकम् ॥ ७ ॥

 ततोऽसावीदृशं प्रच्छन्नं किमपि स्थानं छत्रं सर्वतो दृशं व्यापारयामास, यत्र स चोरापक्रमणं यांवत्क्षेमेण निभृतस्तिष्ठेत्।

 ४. चोरांस्तु समीपागतान्प्रेक्ष्य, असौ सपदि निकटवर्तिनं महीरुहमारुरोह । तस्य शाखास्तथा विपुलाः पल्लवघनाश्चासन्, यथा तत्र स्थितोऽयं स्वयं कस्यापि दृष्टिगोचरो न भवेत् । भाविनं त्वधोगतं वृतान्तं सर्वं द्रष्टुं प्रभवेत् । ततो नातिदूरे विशालः शिलोच्चयो वर्तते स्म । ऋजून्नतस्य यस्य शिखरं मनुजस्य दुरासदमासीत् । अथ ते हयस्थाः, शैलस्य पादमासाद्य, अवारोहन् । अलिपर्वा च तान्गणयित्वा विंशतिद्वयमितानजानात् । तैः स्वस्वसप्तयो दृढगुल्मशाखासु बद्धाः, तेषां वल्गा अपनीताः, कण्ठेषु च । धान्यस्यूता आसञ्जिताः। अथ सर्वेsपि ते स्वस्वपर्याणगोणीराददिरे। या भारवत्तया रजतमहारजताभ्यां पूर्णा इवाबभुः ।

 ५. अन्येभ्यो विशिष्टाकारस्तेषामेकतमः, अलिपर्वणा नायकत्वेन गृहीतः। स गोणीं पृष्ठेन वहन्, तस्यैव वृक्षस्याधस्तात्प्राप, यत्रालिपर्वा निलीनोऽतिष्ठत् । ततः कुञ्जमध्येन शैलाग्रभागं यावदसौ प्राप्नोत् । तत्र स्थित्वासौ पपाठ-

स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक ।
दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८ ॥

 पठितमात्र एतस्मिन्पद्ये द्वारमेकमपावृतम् । येन गुहान्तर्गामी मार्गः प्रकाशतामगात् । तेन मार्गेण सर्वानप्यनुचरान्प्रविष्टान्प्रेक्ष्य सोऽग्रणीः। स्वयमपि प्रविष्टः। द्वारं च स्वत एव संवृतम् ।