पृष्ठम्:चोरचत्वारिंशीकथा.djvu/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

नाम पूर्वपद्येन मया प्रोक्तेन द्वारमिदं विघटेत ? । पश्यामि तावत् । धनागमस्तु संशयमारूढस्यापि भवेन्न वा । कुतः पुनरनारूढस्य ?। तन्नूनं प्राणभयमगणयता मया द्वारविघटने यत्न आस्थेयः। ततः परं दैवस्यायत्तम्। उक्तं हि

न संशयमनारुह्य नरो भद्राणि पश्यति ।
आरुह्य संशयमपि यदि जीवति पश्यति ॥ १० ॥

 एवं विचिन्त्यासौ वृक्षतोऽवतीर्य गुल्ममध्येन शैलमुखं यावद्वन्नाज, पद्यं चैतत्पपाठ-

स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक ।
दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८ ॥

 अस्मिन्गीतमात्रे द्वारं तत्स्वयं विवृतम् ।

 १०. तदा, अत्र गुहायामन्धतमसेन भाव्यम् । कथं चात्र सुखेन मम प्रवेशः स्यात् ? ।-इति शङ्कमान एव सः, सर्वतः स्फुटप्रकाशां विस्तीर्णा शालां प्रेक्षते स्म । प्रेक्ष्य च भृशं विसिष्मिये । सा शाला मनुजैः शैलगर्भादुत्कीर्णासीत् । तद्गर्भश्च शिरोगतच्छिद्रप्रविष्टेन सहस्रकरकिरणनिकरेण समुद्भासितोऽवर्तत । तत्र तेन विविधानि भक्ष्याणि राशीकृतानि दृष्टानि । महार्घाणां चीनांशुकानां पटान्तराणां च कुथानामपि निचयाः सुरचिता निरूपिताः । कनकस्य रजतस्य च स्थूलस्थूलाः शलाकाः संघशो विकीर्णा वीक्षिताः । तुन्दिलानि च निष्फपूर्णानि दृतिभाजनानि विलोकितानि । वस्तुजातमेतत्प्रत्यक्षीकुर्वतस्तस्य चेतसि समुदभूत्-। यथा-गुहेयमनेकान्युगपर्ययान्यावच्चोरनिलयः स्यात्-इति ।