सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
करणव्यापारनिरूपणम्


त्वमिति व्यापारवेशमाह-नदाहरणधारणप्रकाश- करम् इति । पृथायथम् । तत्र कर्मेन्द्रियाणि वागादीन्या- हरन्ति, यथास्वमुपाददते, स्वव्यापारेण व्याप्नुवन्तीति यावत् । बुद्ध्यहङ्कारमनांसि तु स्ववृत्त्या प्राणादिल- क्षणया धारयन्ति । बुद्वीन्द्रियाणि प्रकाशयन्ति ।

 आहरणधारणादिक्रियाणां सकर्मकतया किं कर्म कत्तिविधं चेत्यत आह-कार्यं च तस्य इति । कार्यं तस्य त्रयोदशविधस्य करणस्य दशधा, आहा- त्तिाप्राक्काले पक्षे अनिर्णीतत्वेन तत्कालावतीर्णतर्कबोधकप्रकृतवा- क्यस्य तत्काले बाधप्रसङ्गादिति ।

 तञ्चिन्त्यम् । चिन्ताबीजं तु आपत्तिवाक्यादिवद् बाधनिश्चय काले असम्भावनाविषयबोधस्य सर्वानुभवसिद्धत्वादिति । यदि च त्वं गच्छ इत्यादिशब्दोऽपि याञ्चा तदा अन्यकर्तकत्वेनेच्छावि- षयक्रियाबोधकः शब्द एव याञ्चा बोध्या । लभेयं भिक्षामित्यादौ तु निरुक्तयाञ्चायाः स्वविषयीभूतदानप्रयुक्तत्वसम्बन्धेन लाभेऽन्व- यः भिक्षापदं च याञ्चाविषयपरम् । एवं च भिक्षाकर्मनिरुक्तया- ञ्चाविषयप्रयुक्तलाभाश्रयत्ववानित्यन्वयबोधः ।।

 केचित्तु लभेयं भिक्षामित्यादौ विधेरिछाविषयत्वमेवार्थः । भिक्षापदस्य याचनीयार्थकत्वात् । तादृशेच्छाया याञ्चापरत्वम् । एवं च भिक्षाकर्मकेछाविषयलाभाश्रयतावानहमित्येवान्वयबोधः । एवं च निरुक्तयाञ्चाया आज्ञादिसाधारणत्वात् विजातीयेच्चैव सर्वत्र याञ्चापदार्थः । एवमाज्ञानुज्ञासज्ञादिरपि विजातीयेच्छैव । समिधेत्यादौ समिदादिज्ञानविषयसमित्कर्मकाहरणानुकूलकृतिमाँ- स्त्वभित्यन्वयबोध इत्यलं प्रसङ्गागतेन ।

 प्रकृतमनुसरामः । अहरन्तीति । शब्दस्य नित्यत्वपक्षे इदम् । अनित्यत्वे तु वागिन्द्रियं शब्द जनयतीत्य बोध्यः ।