र्यं धार्यं प्रकाश्यं च । आहार्यं व्याप्यम् । कर्मेन्द्रि-
याणां वचनादानविहरणोत्सर्गानन्दाः यथायथं व्या-
प्याः, ते च यथायथं दिव्यादिव्यतया दश–इत्याहार्यं
दशधा । एवं धामिप्यन्तःकरणत्रयस्थ प्राणादिलक्षणया
वृत्या शरीरम् , तञ्च पार्थिवादिपाञ्चभौतिकम् । श-
ब्दादीनां पञ्चानां समूहः पृथिवी, ते च पञ्च दिव्यादिव्य-
तया दशेति धार्यमपि दशधा। एवं बुद्धीन्द्रियाणां शब्द-
स्पर्शरूपरसगन्धा यथायथं व्याप्याः, ते च यथायथं दि-
व्यदिव्यतया दशति प्रकाश्यमपि दशधेति ॥ ३२॥
आकाशमयो वायुमयस्तेजोमय आपोमयः पृथिवमय इति
श्रुतिमाश्रित्याह । तच्चेति ।।
यत्तु पाञ्चभौतिकत्वे जलत्वादिना संकर्यं तन्न । सांकर्यस्या- दोषत्वात् । स्वदोष्मादेरुपलम्भात् । शुक्रशोणितदेहबीजं द्रवबा- हुल्याञ्च ।
न च मृतशरीरे स्वेदादेर्विनाशेऽपि शरीरत्वेन प्रत्यभिज्ञा नान्न पाञ्चभौतिकवामिति वाच्यम् । तादृशप्रत्यभिज्ञाया आकार- विशेषविषयत्वात् । अत एवेदं नष्टमिति व्यवाह्वियते ।
न च तदन्तरंगातपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणा- भ्यामिति ब्रह्ममोमांसाधिकरणे देहान्तरप्रतिपत्तौ देह बीजैर्भूतसू- क्ष्मैः परिष्वक्तो गच्छति कुतः प्रश्ननिरूपणाभ्याम् । तथा हि प्र- इनः वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति । नि रूपणं च प्रतिवचनं छुपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्र- द्धासोमवृष्ट्यन्नरेतरूपाः पंचाहुतीर्दंर्शयित्वेति तु पञ्चम्यामाहुता- वापः पुरुषवचसो भवन्तीति तस्मादपोपलक्षितभूतसूक्ष्मैः परिवे: ष्टितो जी्वो यात्तीति सिद्धान्तितम् । तच्च न सम्भवति । उपादा- नगमने कार्यस्यादर्शनप्रसङ्गादुपादानानां हस्तपादानीनामदर्शन-