पुटमेतत् सुपुष्टितम्
286
आयुर्वेदसूत्रे
अथ द्वादशः प्रश्नः.
देशबन्धः चित्तस्य धारणा ।
१
तत्र प्रत्ययैकतानता ध्यानम् ।
२
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।
३
त्रयमेकत्र संयमः ।
४
तज्जयात्प्रज्ञालोकः ।
५
तस्य भूमिषु विनियोगः ।
६
त्रयमन्तरङ्गं पूर्वेभ्यः ।
७
तदपि बहिरङ्गं निर्बीजस्य ।
८
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः ।
९
तस्य प्रशान्तवाहिता संस्कारात् ।
१०
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ।
११
शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्र्यतापरिणामः ।
१२
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।
१३
शान्तोदिताव्यपदेशधर्मानुपाती धर्मी ।
१४
क्रमान्यत्वं परिणामान्यत्वे हेतुः ।
१५
परिणामात्रयसंयमादतीतानागतज्ञानं ।
१६
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।
१७
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ।
१८
प्रत्ययस्य परचित्तज्ञानम् ।
१९
न तत्सालम्बनं तस्याविषयीभूतत्वात् ।
२०