पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
287
द्वादशः प्रश्नः
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ।
२१
 
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ।
२२
 
मैत्र्यादिषु बलानि ।
२३
 
बलेषु हस्तिबलानि ।
२४
 
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ।
२५
 
भुवनज्ञानं सूर्यसंयमात् ।
२६
 
चन्द्रे ताराव्यूहज्ञानम् ।
२७
 
ध्रुवे तद्गतिज्ञानम् ।
२८
 
नाभिचक्रे कायव्यूहज्ञानम् ।
२९
 
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।
३०
 
कूर्मनाड्यां स्थैर्यम् ।
३१
 
मूर्धज्योतिषि सिद्धदर्शनम् ।
३२
 
प्रातिभाद्वा सर्वम् ।
३३
 
हृदये चित्तसंवित् ।
३४
 
सत्वपुरुषयोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पदार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ।
३५
 
ततः प्रातिभाश्रावणवेदनादर्शनास्वादवार्ता जायन्ते ।
३६
 
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ।
३७
 
बन्धकारणशैथिल्यात् प्रचारसंवेदनात् चित्तस्य परशरीरावेशः ।
३८
 
उदानजयात् जलपङ्ककण्टकादिषु असङ्ग उत्क्रान्तिश्च ।
३९
 
समानजयात् ज्वलनम् ।
४०
 
श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ।
४१