मध्यानिलगतिकृत
[१]कार्यं घ्राणेन्द्रियमविषयीकुरुते
[२] ।
३३
दोषगत्या तद्विषयमविषयीकुरुते ।
३४
मधुमाधवसमयोचित
[३]मधुररसोऽरिष्टरोगहारकः ।
३६
मधुश्च माधवश्च वासन्तिकावृतू ।
३७
द्वितीय
[४]भूतोद्भवस्वादुरसक्रमातिक्रमाद्विरसो भवति ।
३८
तद्रसश्चरमधातुपोषकः । तज्जन्यगुणो विकारकः ।
३९
जलमलं अजलजम्बुलं
[५] विभाति ।
४०
यावत्सारविकार
[६]निवर्त्यनिवर्तका
[७] निवर्तन्ते ।
४१
तज्जन्यान्यजन्यश्वयथुजन्यमरिष्टसूचकम् ।
४२
अन्नाद्यनद्य
[८]मतिसारसरणं गतायुर्ज्ञापकम् ।
४३
अनामसार
[९]विगतिर्यत्रान्तकालमयात्मिका
[१०] ।
४४
कषायरसनिभं आम्लगात्रभूरुहे
[११] ।
४५
अविषयविषयानुभवः
[१२] तत्कार्यनाशकः ।
४६
साध्यासाध्यज्ञानपूर्विका चिकित्सा
[१३] ।
४७
सारविषये
[१४] विधिज्ञं पण्डितमभिमन्येत ।
४८
अप्रमत्तश्चिकित्सायाम् ।
४९
- ↑ गतकृत--A&C.
- ↑ मविषयं कुरुते--B.
- ↑ माधवसंयोजित-–AC.
- ↑ द्वितृतीय--B.
- ↑ अजलजम्बुला--A&C.
- ↑ विकारा इति सुपठम्.
- ↑ निवर्तकेन--A&C.
- ↑ दन्याद्य--A&B&C.
- ↑ अनायासार--A&C. अनायसार--B.
- ↑ कालमयापिका–-A.
- ↑ नैतत् A.C. कोशयोरस्ति.
- ↑ नुभवात्--B.
- ↑ कार्या स्वचिकित्सा-A.C.
- ↑ साध्यविषये इति सुपाठः.