पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
266
आयुर्वेदसूत्रे
साध्येषु प्रवर्तयेत् ।
५१
 
परोपकारः पुण्याय भवति ।
५२
 
ताश्च वर्तकाः[१]
५३
 
एवमनामपालनं कुर्यात् ।
५४
 
पवनामृतपूरितपूतधातुवद्रसाश्च निवर्तकाः ।
५५
 
भूतधातुशोषकहेत्वजन्यान्यहे[२]तुकामयास्संसाध्याः ।
५६
 
यावदजीर्णानुभवकालो यावदामहतानलस्तावत्कालं ज्वरो निवर्तते ।
५७
 
आममेवानलविकारकारकम् ।
५८
 
आमेनाहतोऽनलो बहिरुज्ज्वलयन् ज्वरयति ।
५९
 
यावत्समये समयो नियामकः ।
६०
 
अजीर्णारिष्टारोचकश्वयथ्वतिसाराधीनसर्वेन्द्रियविनाशास्ते दृश्यन्ते ।
६१
 
यत्रस्था ये रसा रसासृग्बिरसनात् द्रव्यं द्रव्यान्तरं विभाति ।
६२
 
शोभा प्रभेषजम् ।
६३
 
ग्रीष्मोत्थितरसा आकाशावकाशपवनगमनात्पञ्चपवनानिरीक्षणात्[३]गगनानिलगुणकषायतिक्तरसावष्टम्भविकारकारकाः ।
६४
 
पवनगतात्प्रयत्नच्युताद्यद्भुतशोषास्तद्रसानपहरन् तद्विरसस्तन्निवर्तकः ।
६५
 
आद्याद्विभूतोद्भवशब्दश्शब्दान्तरं श्रूयते ।
६६
 
एकमनकं भाति ।
६७
 


  1. निवर्तका इति सुपाठः.
  2. हेत्वजन्यहेतु--C.
  3. त्पञ्चपवनपञ्चानिरीक्षणात्--C.