द्दोषजन्यधातुविकाराभावपर्यन्तं दोषविकारगतिनिवृत्तिपर्यन्तं तत्तन्निवर्तकेन तत्तत्पचनं कुर्यादिति वक्तव्यम् । तथा सति अस्थिमज्जाशुक्लधातुगता सती यावद्दोषगतिः प्राणहानिं कुरुते । तेषां निवर्तकानामप्रयोजकत्वात् श्रेयान्प्रसादाधीनो दोषपचनकाल इति तावद्दोषपचनमारोग्यकारकं न भवतीत्यस्वरसादाह--एवमिति ।
एवमेकधातुगतास्सुसाध्याः[१] ॥ २७ ॥
एवमुक्तरीत्या सर्वदोष एकधातुगतिजन्यविकारः यत्र प्रदृश्यते तत्रायं नियमः । न द्वित्रिदोषेषु नियमः । एवंप्रकारेण एकधातुगतव्याधीनां सुसाध्यत्वमित्यर्थः ।
ननु दोषप्राणागतिः केनोपायेन ज्ञातव्या ? पवनदोषगतिः स्वाभाविकविकारवेद्या । पङ्गुकफः पङ्गुरिति तयोर्गमनस्य वक्तुमशक्यत्वात् ।
नाभिप्रदेशपर्यन्तं पादपद्मादारभ्य बीजपद्मपर्यन्तं पवनप्रदेशः । बीजपार्श्वपद्ममारभ्य हृदयपद्मपर्यन्तं पित्तदेशः । तदूर्ध्वदेशः शिरःप्रदेशपर्यन्तं कफप्रदेशः । एवं देशभेदं विज्ञाय दोषाणां गमनमीदृङ्निश्चित्य अयं साध्यरोगः अयमसाध्यरोग इति व्यवहर्तुं शक्यते । दोषस्य दोषान्तरेण संसर्गो द्वन्द्व इति । क्वचित्त्रयाणां दोषाणां समाहारत्वं त्रिदोषत्वम् । सर्वं केनाकारेण ज्ञातव्यमित्यस्वरसादाह--द्विरसेति ।
द्विरसजद्विदोषप्रचारमांसमेदोनुगतरसप्रधानैकदोषपचनद्विदोषजा दुस्साध्याः ॥ २८ ॥
- ↑ A & B कोशयोरेतत्सूत्रं चतुर्थप्रश्नस्यान्तिमं सूत्रम्.