पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
230
आयुर्वेदसूत्रे

 द्वयोर्वातापित्तयोः प्रकोपकार्यहेतुभूतौ यौ रसौ, अल्पस्वादुरसविरसः पवनप्रकोपहेतुकः । अधिकस्वादुरसविरसः पित्तप्रकोपहेतुकः । तावेव विरसौ कार्यभेदकारकौ । ताभ्यामुत्पन्नो विकारः द्विरसजः । द्विदोषप्रचारेति । चरतीति चरः । प्रकृष्टं चरतीति प्रचरः । रसासृङ्मांसधातुविधा ये ते मांसमेदोनुगता इति । शिरः षट्कमलात्मकं, मांसाधारकं शिरः । मेदोधारकं भिन्नम् । तद्धातुशोषकरसौ भिन्नौ । तत्र स्वानुगतकार्यमुद्दिश्य प्रवर्तकौ यौ रसौ तावेव प्रधानभूतकर्मकारकौ । एवं रसप्रधानैकदोषपचनं यत्रोपलभ्यते तत्रेयं सूत्रप्रवृत्तिः । प्रकारान्तरमपि द्योत्यते । रसविरसजन्यदोषप्रकोपस्य पचनलङ्घनौषधैः प्रकोपराहित्यकरणमेव पचनमिति केचिद्व्याख्यानं व्याचक्षते । रसप्रधानैकदोषपचनं रसोपरसलोहादीनां महारसानां योगकर्म सर्वरोगनिवर्तकमिति विवक्षितम् । तद्द्रव्यनिष्ठरसाः तैजसा इति व्यवह्रियन्ते । तत्सजातीयानलसंयोगेन तद्रसेषु तत्तद्गुणा आविर्भवन्ति । एतत्सर्वं तैजसद्रव्यं आमविरसविषजन्यप्रकोपजन्यरोगाणां निवर्तकम् । रसवद्द्रव्यनिष्ठषड्रसादीनां अनलसंयोगजन्यरसविशिष्टद्रव्यमधिकरसाविर्भावप्रभावहेतुकं, अधिककालरसगुणप्रधानरूपकाकारद्रव्यत्वात् तैलघृतलेह्यादिवत् ।

 अनलसंयोगजन्यमहारसवद्द्रव्यनिष्ठषड्रसादिरसगुणः कालपानयोगकरणजातरसविरसादिविभावादेव रसगुणविशिष्टगुणप्रधानशीलकः अनलसंयोगजन्यगुणाविर्भावगुणविशिष्टकालाधिक्यद्रव्यत्वात् यन्नैवं तन्नैवं यथा कालादिः इत्यनुमानप्रमाणज्ञानस्य तदधिकरणज्ञापकत्वं विवक्षितम् । एवं द्वन्द्वरोगाणां सर्वपदार्थेषु निवर्तकज्ञानमनिवर्तकज्ञानमुभयज्ञानविषयकज्ञानं रोगनिवर्तककार्यहेतुकम् । निवर्तकैकनिवृत्तद्रव्यत्वात् । इतररसोपरस