सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
प्रधानपुरुषसंयोगसिद्धिः ।

न सम्भवतीति युक्ता ऽस्य भक्त्रपेक्षा ।

 पुरुषस्यापेक्षा दर्शयति-पुरुषस्य कैवल्यार्थम् इति। तथा भोग्यन हि प्रधानेन संभिन्नः पुरुषस्तद्गतं दुःखत्रयं


वं व्याख्येयः । उक्तरूपप्रधानस्य यद्दर्शनं तत्केनेत्याकाङ्क्षायामा इ-पुरुषेणेति । एतेन दर्शनार्थमित्यस्य प्रधानस्येत्यत्रान्वये प्रधानस्य दर्शनार्थमित्येव वक्तुमुचितं, नतु पुरुषस्य दर्शनार्थमिति परास्तम् । पुरुषस्यापि कर्तृत्वेनान्वयात् । एवं प्रधानस्यापि कैव- ल्येऽन्वयसम्भवात् । नच कर्तृत्वं कृतिमवं, तच्च पुरुषे सांख्यम- ते नास्तीत्यतः पुरुषेणत्यसङ्गतमिति वाच्यम् । दर्शनमत्र भोगः, स च सुखादिसाक्षात्कारो बुद्धिगतचेतनप्रतिबिम्बस्तत्प्रयोजकतया पु- रुपे कर्तृत्वोपचारात् ।

 ननु प्रधानदर्शनस्य द्रष्ट्टसापेक्षत्वेऽपि प्रधानस्य तदपेक्षत्वाभा- वात्कथं तत्सापेक्षत्वाभिधानमित्याशङ्क्या विवक्षितविवेकेन तत्सापे- क्षत्वमुपपादयति-तदनेनेति । तदनेन प्रधानस्य दर्शनकर्मत्व- कथनेन । तथाच सुखाद्यात्मकप्रधानस्य पुरुषनिष्ठत्वेन ज्ञायमानता- रूपभोग्यतापि दर्शितेत्यर्थः ॥ पुरुषस्य कैवल्यार्थं प्रधानापेक्षां दर्श- यितुं धर्म्यध्यासमाह भोग्येनेति । प्रधानेन सर्वकारणेन महत्तत्वा- दिस्वरूपेण । सम्भिन्नो-संसर्गाग्रहनिबन्धनाऽहं कर्त्तेति तादात्म्या: भिमानवान् । धमध्यासमाह-तद्गतमिति । अभिमन्यमानः- सदा दुःखाद्यसंसृष्टेऽपि स्वात्मनि विपर्यस्तः । अतएव तन्नित्यर्थं प्रार्थ- यते इत्याह-कैवल्यमिति । तथाच स्वभावतो दुःखसम्बन्धाद्वि- मुक्तस्यापि पुरुषस्य प्रतिबिम्बरूपदुःखनिवृत्यर्थं प्रतिबिम्बसम्बन्धे- न दुःखविमोक्षार्थं वा प्रार्थना सम्भवतीत्यर्थः ।

 ननु चेतनस्य बुद्धितादात्म्याभिमानो नाम बुद्धितादात्म्यज्ञानं तञ्च बुद्धिवृत्तिप्रतिविम्वरूपं वक्तव्यमन्यथा कर्मकर्तृविरोधापत्ति: