स्वात्मन्यभिमन्यमानः कैवल्यं प्रार्थयेत । तच्च सत्त्व पुरुषान्यताख्यातिनिबन्धनम् । न च सत्चपुरुषान्यता- ख्यातिः प्रधानमन्तरेणेति कैवल्यार्थ पुरुषः प्रधानमपेक्षते । अदादित्वाच्च संयोगपरम्पराया भोगाय संयुक्तो ऽपि कैवल्याय पुनः संयुज्यत इति युक्तम् ।।
ननु भवत्वनयोः संयोगो महदादिसर्गस्तु कुत इ-
चेदान्तमतप्रवेशो वा। तथा च कथमुक्तभिमन्यमान इति। किंच ता- दात्म्यं सद्वाऽसद्वा सदसद्वा तद्विलक्षणं वा । नाद्यः । अनिवृथापत्तेः । द्वितीयेऽपरोक्षत्वानुपपत्तेः । तृतीयस्तु विरोधपराहतः । चतुर्थस्तु स्वसिद्धान्तविरुद्ध इति चेन्न । प्रधानस्य स्वदर्शनार्थं स्त्रकै वल्यार्थं च पुरुषापेक्षेत्येवान्वयाभ्युपगमात् । नच तथाशब्द- विरोधः । यथा काचन स्त्री स्वभोगार्थं यतमाना पुनः दुःखिता स्वकैवल्यार्थं यतते तथैयमित्येवमुपपत्तेः । पङ्वन्धवदित्यत्रापि अन्धकर्तृक एव पङ्गुबन्धस्तत्त्यागश्च । अत एव ‘विमुक्तविमोक्षार्थं स्वार्थं वा प्रधानस्येति सूत्रे मोक्षबन्धयोः प्रधाने एव व्युत्पादन स- ङ्गच्छते । पारमार्थिकदुःखनिवृत्यर्थं प्रधानप्रवृत्तेर्नकिंचेत्युक्तदोषोऽपि । नच टीकाविरोधः । टीकाया अत्रैव तात्पर्यात् ।।
ननु भोगप्रयोजकानादिसंयोगपरंपरायाः सत्वे कथं कैव- ल्यार्थं पुनस्तद्विरोधिसंयोगोत्पत्तिरित्यत आहे-अनादित्वाचेति । तथाच बहुलकृतपुण्यपुञ्जैः कृतश्रवणस्य मिथ्यावासनाशैथिल्ये इहामुत्रार्थफलभोगविरक्तस्य कैवल्यार्थं प्रवृत्तस्य तत्प्रयोजकसंयो- गसम्भव इत्यर्थः । नच पूर्वसंयोगादेव सृष्टिद्वारा कैवल्यं भवत्विति चाच्यम् । एकस्य विरोधिप्रयोजकत्वासम्भवात् । ननु तादृश- संयोगसत्वेऽपि मोक्षानुपपत्तिः, सर्गाभावे तत्प्रयोजकज्ञानासम्भवा- दित्याशङ्कते-नान्विति । नच मोक्षवद्भगोऽपि सृष्टेः प्रयोजनं तद्-