यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः २९/मन्त्रः ५८

विकिस्रोतः तः
← मन्त्रः ५७ यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)
अध्यायः २९
दयानन्दसरस्वती
मन्त्रः ५९ →
सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, जालस्थलीय-संस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्
यजुर्वेदभाष्यम्/अध्यायः २९


आग्नेय इत्यस्य भारद्वाज ऋषिः। विद्वांसो देवताः। भुरिगत्यष्टिश्छन्दः। गान्धारः स्वरः॥

अथ कीदृशाः पशवः किंगुणा इत्याह॥

अब कैसे पशु कैसे गुणों वाले होते हैं, इस विषय को अगले मन्त्र में कहा है॥

आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒वऽऐ॒न्द्रो᳖ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ऽऐन्द्रा॒ग्नः स॑ꣳहि॒तो᳕ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्णऽएक॑शितिपा॒त्पेत्वः॑॥५८॥

पदपाठः—आ॒ग्ने॒यः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। सा॒र॒स्व॒ती। मे॒षी। ब॒भ्रुः। सौ॒म्यः। पौ॒ष्णः। श्या॒मः। शि॒ति॒पृ॒ष्ठ इति॑ शितिऽपृ॒ष्ठः॥ बा॒र्ह॒स्प॒त्यः। शि॒ल्पः। वै॒श्व॒दे॒व इति॑ वैश्वऽदे॒वः। ऐ॒न्द्रः। अ॒रु॒णः। मा॒रु॒तः। क॒ल्माषः॑। ऐ॒न्द्रा॒ग्नः। स॒ꣳहि॒त इति॑ सम्ऽहि॒तः। अ॒धोरा॑म॒ इत्य॒धःऽरा॑मः। सा॒वि॒त्रः। वा॒रु॒णः। कृ॒ष्णः। एक॑शितिपा॒दित्येक॑ऽशितिपात्। पेत्वः॑॥५८॥

पदार्थः—(आग्नेयः) अग्निदेवताकः (कृष्णग्रीवः) कृष्णा ग्रीवा यस्य सः (सारस्वती) सरस्वतीदेवताका (मेषी) (बभ्रुः) धूम्रवर्णः (सौम्यः) सोमदेवताकः (पौष्णः) पूषदेवताकाः (श्यामः) श्यामवर्णः (शितिपृष्ठः) कृष्णपृष्ठः (बार्हस्पत्यः) बृहस्पतिदेवताकः (शिल्पः) नानावर्णः (वैश्वदेवः) विश्वदेवदेवताकः (ऐन्द्रः) इन्द्रदेवताकः (अरुणः) रक्तवर्णः (मारुतः) मरुद्देवताकः (कल्माषः) श्वेतकृष्णवर्णः (ऐन्द्राग्नः) इन्द्राग्निदैवत्यः (संहितः) दृढाङ्गः (अधोरामः) अधःक्रीडी (सावित्रः) सवितृदेवताकः (वारुणः) वरुणदैवत्यः (कृष्णः) (एकशितिपात्) एकः शितिः पादोऽस्य (पेत्वः) पतनशीलः॥५८।

अन्वयः—हे मनुष्याः! यूयं य आग्नेयः स कृष्णग्रीवो, या सारस्वती सा मेषी, यः सौम्यः स बभ्रुः, य पौष्णः स श्यामो, यो बार्हस्पत्यः स शितिपृष्ठो, यो वैश्वदेवः स शिल्पो, य ऐन्द्रः सोऽरुणो, यो मारुतः स कल्माषः, य ऐन्द्राग्नः स संहितो, यः सावित्रः सोऽधोरामो, य एकशितिपात्पेत्वः कृष्णः स वारुणश्चेत्येतान् विजानीत॥५८॥

भावार्थः—हे मनुष्याः! युष्माभिर्यद्यद्दैवत्या ये ये पशवो विख्यातास्ते तत्तद्गुणा उपदिष्टाः सन्तीति वेद्यम्॥५८॥

पदार्थः—हे मनुष्यो! तुम लोग जो (आग्नेयः) अग्नि देवता वाला अर्थात् अग्नि के उत्तम गुणों से युक्त है, वह (कृष्णग्रीवः) काले गले वाला पशु, जो (सारस्वती) सरस्वती वाणी के गुणों वाली, वह (मेषी) भेड़, जो (सौम्यः) चन्द्रमा के गुणों वाला, वह (बभ्रुः) धुमेला पशु, जो (पौष्णः) पुष्टि आदि गुणों वाला वह (श्यामः) श्याम रङ्ग से युक्त पशु, जो (बार्हस्पत्यः) बड़े आकाशादि के पालन आदि गुणयुक्त, वह (शितिपृष्ठः) काली पीठ वाला पशु, जो (वैश्वदेवः) सब विद्वानों के गुणों वाला, वह (शिल्पः) अनेक वर्णयुक्त, जो (ऐन्द्रः) सूर्य्य के गुणों वाला, वह (अरुणः) लाल रङ्गयुक्त, जो (मारुतः) वायु के गुणों वाला, वह (कल्माषः) खाखी रङ्ग युक्त, जो (ऐन्द्राग्नः) सूर्य्य-अग्नि के गुणों वाला, वह (संहितः) मोटे दृढ़ अङ्गयुक्त, जो (सावित्रः) सूर्य के गुणों से युक्त, वह (अधोरामः) नीचे विचरने वाला पक्षी, जो (एकशितिपात्) जिसका एक पग काला (पेत्वः) उड़ने वाला और (कृष्णः) काले रङ्ग से युक्त, वह (वारुणः) जल के शान्त्यादि गुणों वाला है, इस प्रकार इन सब को जानो॥५८॥

भावार्थः—हे मनुष्यो! तुम लोगों को चाहिए कि जिस-जिस देवता वाले जो-जो पशु विख्यात हैं, वे-वे उन-उन गुणों वाले उपदेश किये हैं, ऐसा जानो॥५८॥