अथर्ववेदः/काण्डं ६/सूक्तम् ०६६

विकिस्रोतः तः
← सूक्तं ६.०६५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६६
ऋषिः - अथर्वा
सूक्तं ६.०६७ →
दे. इन्द्रः। अनुष्टुप्।

निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।
समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥
आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ ।
निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥
निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि ।
अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥