अथर्ववेदः/काण्डं ६/सूक्तम् ०६५

विकिस्रोतः तः
← सूक्तं ६.०६४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६५
ऋषिः - अथर्वा
सूक्तं ६.०६६ →
दे. (चन्द्रमाः), इन्द्रः, पराशरः। अनुष्टुप्, १ पथ्यापङ्क्तिः।

अव मन्युरवायताव बाहू मनोयुजा ।
पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥
निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ ।
वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥
इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः ।
जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥