अथर्ववेदः/काण्डं ६/सूक्तम् ०६७
दिखावट
← सूक्तं ६.०६६ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०६७ ऋषिः - अथर्वा |
सूक्तं ६.०६८ → |
दे. इन्द्रः। अनुष्टुप्। |
परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।
मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥
मूढा अमित्राश्चरताशीर्षाण इवाहयः ।
तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥
ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥