यथावा--
कनकनगकटकतटकनदगगहनग गगनसदनसततनत । जगदनघजयद घनदय जय गजदरदहनजलद नरकहर ॥ २३४१ ॥
कनकनगस्य वृषाद्रेः कटकस्थ तटे कनतां लसतां अगानां तरूणां गहनं काननं गच्छतीति गहनगः तस्य संबुद्धिः गगनसदनैः दिविषद्भिः सततनत । जगतां अनघं दुःखासंभिन्नं जयं ददातीति जगदनघजयदः तस्य संबुद्धिः । गजदरदहनजलद गजस्य दरः भयमेव दहनः पावकः तस्य जलद । नरकहर नरकारे जय उत्कर्षं प्राप्नुहि । अत्रापि कण्ठ्यतालव्यमूर्धन्यवर्णा एव ग्रथिताः । इदं निरोऽष्ठ्यमेकस्वरं सर्वलघु चेति विच्छित्तिविशेषः पूर्वस्मात् ॥
शेषाचलभूषा शुभवेषा भाषापतिस्तुतिसतोषा । योषाहृदयविभूषा शेषाशेषाऽऽदिदेवता सैषा ॥
योषा लक्ष्मीः हृदयविभूषा यस्यास्सा सैषा आदिदेवता । शेषाः शेषभूताः अशेषाः सर्वे यस्यास्सा । अत्र श्रीनिवासमुद्दिश्य अशेषशेषित्वं विधीयते । इदं निर्नासिक्यवर्णं चित्रम् ॥
एवं चतुस्स्थानवर्णनियमो दर्शितः । अथ त्रिस्थानवर्णनियम उदाह्रियते--
यथा--
कान्त्यानन्त्यात्कान्ता शान्त्या चात्यन्तया दयाजलधिः । कनकनगनाथदायिता कनति कनत्काञ्चिकाञ्चिता जगति ॥ २३४३ ॥