पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
249
शब्दालङ्कारसरः (१२२)

भयभरहरणं भवात् भवः उत्पन्नः यो भयभरः तस्य हरणं हर्तृ किमपि वैभवमेव वैभवत्वेनाध्यवसितं परं ब्रह्मैव अयि गीः हे वाणि ! परिचर तद्गुणानेवानुवर्णयेत्यर्थः । अत्र कण्ठ्यतालव्यमूर्धन्यौष्ठ्यवर्णैरेव निबन्धः । इदमेव निर्दन्त्यचित्रम् । अत्र केवलदन्त्यस्यैव निषेधः, तेन दन्तोष्ठस्थानकवकारसद्भावेऽप्यदोष इति ध्येयम् ॥

 यथावा--

 फणिशेखरशिखरिशिखामरगणपरिबृढमणीशमञ्जुरुचिम् । रमणीरमणीयोरश्शरणं शरणं कमप्यये शरणम् ॥ २३३९ ॥

 शरणं रक्षितारं रमणीरमणीयं उरश्शरणं हृदयगृहं यस्य तं कमपि पुमांसं शरणमये उपायत्वे स्वीकरोमीत्यर्थः ॥

उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् ।
वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥

इत्यहिर्बुध्न्यसंहितोक्तेः । इदं सर्वधा निर्दन्त्यम् ॥

 ममैव प्रपन्नानन्दस्तुतौ--

 जगदीशहृदयनिलया जगताञ्जननी जनार्तिहरणचणा । जलजदलायतनयना जलनिधितनया जयान्कलयतान्नः ॥ २३४० ॥

 अत्र कण्ठ्यतालव्यमूर्धन्यदन्त्यवर्णानामेव निबन्धः । इदमेव निरोष्ठ्यमित्युच्यते । अत्र अकार आकार इकार ईकार ऋकारश्चेत्येते पञ्चैव स्वरा निबद्धा इति विच्छित्तिविशेषः ॥

 ALANKARA IV.
19