पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
251
शब्दालङ्कारसरः (१२२)

 कान्तेः आनन्त्यात् अत्यन्तया शान्त्या च कान्ता मनोज्ञा दयाजलधिः कनन्त्या प्रकाशमानया कनककाञ्चिकया अञ्चिता कनकनगनाथदयिता जगति जयतीति योजना । इदं कण्ठ्यतालव्यदन्त्यवर्णैरेव निबद्धमिति निरोष्ठ्यमूर्धन्यचित्रम् । अत्रापि ‘दृष्टिशृतिभूभृद्विभु’ इति प्रागुदाहृतनिष्कण्ठ्यचित्रपद्य इव नकार ईकारयोर्दन्त्यतालव्यत्वमात्रविवक्षया न स्थाननियमभङ्ग इति ध्येयम् । अन्यथा चतुस्स्थानवर्णनियमस्यैवोदाहरणं भवेत् । अत्र अकार आकार इकार इति त्रिस्वरनियमोप्यभ्युच्चीयते ॥

 यथावा--

 सकलेहितदाय जयश्शकलितदैत्याय सकलशशियशसे । सजलजलदालिलालितदीधितये स्तात्खगाचलेशाय ॥ २३४४ ॥

 सकलशशियशसे पूर्णचन्द्रसदृशकीर्तये । खगाचलेशाय श्रीनिवासाय जयः स्तात् । इति योजना । ‘जितं ते पुण्डरीकाक्ष' इतिवदत्र भगवतो जयाशासनम् । इदं तु शुद्धत्रिस्थानवर्णनियमोदाहरणं नासिक्यासंवलितत्वादिति पूर्वस्माद्विशेषः ॥

 द्विस्थानवर्णनियमो यथा--

 भामाभामापोहो भोगाभोगाभबाहुभागघहा । भूभागमखभुगगभाङ्मामकपापापहो महाभूमा ॥

 भामायाः सत्यभामायाः भामः कोपः 'भाम क्रोधे’ इत्यस्माद्भावे घञ् । 'भामः क्रोधे रवौ दीप्तौ' इति मेदिनी । सः अपोह्यते अपनीयतेऽनेनेति भामाभामापोह:। भोगस्य अहिकायस्य आभोग: परिपूर्णतेवाभोगो यस्यास्सा तथोक्ता आभा ययोस्तौ

19*