पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
252
अलङ्कारमणिहारे

बाहू भजत इति भोगाभोगाभबाहुभाक् । भूभागमखभुगगभाक् । भूभागं भूमिप्रदेशं मखभुगगं स्वर्द्रुमं भाजयति सेवयतीति तथा । भजतेर्ण्यन्तात् क्विप् । कल्पतरुं भुवं नीतवानित्यर्थः । यद्वा ‘भज विश्राणने’ इत्यस्माच्चौरादिकात् क्विप् । कल्पतरुं भूलोकाय विश्राणितवानित्यर्थः । अतएव भामाभामापोह इत्युक्तम् । अतएव महाभूमा विपुलमहिमा अघहा अघासुरहन्ता भगवान्यदुनन्दनः मामकपापापहः मदीयदुरितहरः भवतीति शेषः । अत्र कण्ठ्यौष्ठ्यवर्णैरेव निबन्धनमिति निस्तालव्यमूर्धन्यदन्त्यचित्रमिदम् । अत्रापि मकारङकारयोः कण्ठ्यौष्ठ्यमात्रत्वं पूर्ववत् अकार आकार उकार ऊकार आकारश्चेति पञ्चैव स्वरा इति स्वरनियमोऽप्यभ्युच्चीयते ॥

 एकस्थानवर्णनियमो यथा--

 काकाघहाऽङ्कगाङ्कः खगाङ्कगागागगाहकः खगगः । अङ्कागाङ्काङ्काङ्कगकङ्कककङ्काकहा खगाङ्काङ्कः ॥ २३४६ ॥

 काकाघहा काकस्य ऐन्द्रेर्वायसस्य अघं दुःखं हन्तीति तथोक्तः । अङ्कगाङ्कः अङ्कं श्रीवत्साख्यं लक्षणं गच्छतीत्यङ्कगः अङ्कः क्रोडं यस्य सः श्रीवत्सवक्षा इत्यर्थः । कोशस्त्वनन्तरमेवोदाहरिष्यते । खगाङ्कगागागगाहकः--खगाः द्युसदः अङ्कगाः समीपगाः यस्य सः अत्युन्नत इति यावत् । तथोक्तः अगागः फणिगिरिः 'अगो नगश्च भुजगे नाभौ भूरुहि भूधरे’ इति रत्नमाला । 'अगस्स्यान्नगवत्तरौ । शैले सरीसृपे भानौ’ इति हेमचन्द्रश्च । खगाङ्कगश्चासावगागश्च खगङ्कगागागः तस्य गाहकः उन्नततमं शेषाचलं प्रविष्ट इत्यर्थः । गाहतेर्ण्वुल् । खगं खगेन वा गच्छ