पद्मिनीपरिणयः/नवमोऽङ्कः
॥ अथ नवमोऽङ्कः ॥
(नेपथ्ये )
अलं सायंकालप्रतिनियतवादित्रनिनदै-
रलं नृत्तैर्गीतैरलमलमलं वन्दिनुतिमिः ।
यतः पुत्रोदन्तं नृपतिरवकर्ण्याद्य नितरां
विदूनः पुत्रीं स्वां पुनरपहृतां ज्ञास्यति तथा॥
(इति चूलिका )
(ततः प्रविशति भ्रमरिकया च अरुणेन च अनुगम्यमानो भास्करः)
भास्क--सखे ! किमेतदापन्नमतर्कितं व्यलीकम् ?
अरुणः--(स्वगतम्) हा ! कथं समाधातुं शक्यो वयस्य: मह्यात्यामस्यां विपत्तौ !
(प्रकाशम्) र्कि ब्रवीमि मन्दभाग्यः ।
भ्रम-हळा ! कहिं गदासि ? (हळा ! क्व गताऽसि ?)
अरु-अलमावेगेन । निशान्तं प्राप्य सुशान्तं नृपं पश्यामः । (इति परिक्रामन्ति )
अरु-(पुरोऽवलोक्य )
विदितसुतदशोऽयं काममार्तान्तरङ्गः
सविधगतजनास्ये केवलं दत्तचक्षुः ।
कथमिव तनुजायास्तामवस्थामसह्यां
मृदुतरमनसाऽग्रे बोधनीयो जनेन ॥
भास्करः--
शुद्धान्तचारिजनमात्रपरीतपार्श्वो
गण्डस्थलीनिहितसंश्लथवामपाणिः ।
निःश्वाससन्ततिभृताधरशोणशोभ:
पूज्यो विचारजलधौ विनिमग्नचित्तः ॥
( प्रविशति यथानिर्दिष्टः कासार: )
आनुकूल्ये प्रवृत्तोऽपि विधिर्विद्वेषिसम्भृतेः ।
अचिरान्प्रातिकूल्ये मे समुद्युक्त इवाधुना ॥
94
�
|भ्रम-हळा ! कुदो ण लख्खीअसि । (हळा ! कुतो न लक्ष्यसे ) ।
कासा-अन्यदप्यत्याहितं श्रूयते ।
भास्क–हन्त ! दैवदुर्विलसितम् ।
कासा---अरुण ! किमापन्नम् ?
अरु---( तूष्णीं वर्तते )
भास्क --किं गोपनेन ?
अरु-उद्विजते वक्तुं जिह्वा ।
प्रतिकर्तुमशक्यं वा शक्यं वा सुहृदा स्वयम् ।
अनिष्टमपि सञ्जातममिधातव्यमेव हेि॥
अरु-
अहो ! श्रुत्वा यावत्तव शुभनिदेशं सह मुदा
वयं भूमीगेहाद्बहिरिह विनिर्यातुमनसः ।
उदस्थाम प्रीत्या पतिमनुगता ते तनुभवा
मियाऽत्यक्षत् भो ! मामुपसरति भूतं महदिति ।।
कासा-कष्टम् ! तत: |
अरु--यावदावां परावृत्य पश्यामः तावद्भदा जलधरे सौदामनीव अन्तर्हिता ।
कासा-किं करिष्यामेि सखे ! पापा हेिमानी भैरव्यै यां तरुणीं निर्दिष्टवती सा वस्सैव
न संशयः ।
वत्सौ सुन्दरवपुषौ सद्गुणपूर्णौ चिरेण संलब्धौ ।
कीरौ यथा बिडाली कालीतृप्त्यौ हानेष्यति हिमानी ।।
(इति पतति )
विदू–(उत्थाप्य) वअस्स! समस्ससिहि (वययस्य समाश्वसिहि ।
स्मरामि वां शैशवमद्य वत्सौ लालम्बुमुक्ताफलमुग्धसृक्कम् ।
द्वित्रैर्नवीनैर्दशनैर्मनोज्ञवक्त्राब्जमस्पष्टवचोभिरामम् ॥
भास्क-
हा तादृशीह दयिते पुरतः स्थितेव
स्वं भासि मे तुहिनमण्डलमीतिभारात् ।
95
वेगेन धावितुमना अपि मन्दमदं
ताद्दङ्नितम्बकुचकुम्भभरेण याता ।।
भ्रम-हा सहि ! कहिं गदासि मं उज्झिअ ? तुह दम्सणं विणा मे स्वणो वि जुअसरिसो खु । (हा सखि! क्व गताऽसेि ममुज्झित्वा । तव दर्शनं वेिना मे क्षणोऽपि युगसदृशः खलु )
वत्से विहारसमयेषु वराटिकाभि-
गलीः प्रतार्य वचसा ग्लहमाददानाम् ।
त्वां वा स्मरामि तव सोदरमद्य जित्वा
'
क्रीडासखानहह तद्भुजवाहनं वा ॥
भ्रम-हळा ! तस्सि कीळासमए अश्लाणं मिहो खणेखणे कळहो सिणेहो वा भवे खु ।
(तस्मिन्क्रीडासमये अावयेोः मिथः क्षणेक्षणे कलहः स्नेहो वा भवेत्खलु) ।
भास्क-प्रिये !
हा त्वं मुरारिदयितां हृदि भावयन्ती
हस्ताञ्जलिस्थकुसुमा दरमीलिताक्षी ।
ईषच्चलत्किसलपच्छविदन्तचेला
दृष्टाऽद्य तां कथमहो इह विस्मरामि ॥
कासा-
वत्सौ विदित्वाऽपि वशं गतौ तौ मृत्योः कथं चित्त मदीय पाप ।
न दीर्यसे हन्त तवेह सृष्टिर्लोहेन वा किं पविना न जाने ॥
(इति मूर्च्र्छति।)
भ्रम-(वीजयित्वा) हद्धि ! कुदो सअळळोअसन्तावहरो सहीतादो ण उच्छसिइ ।
(हा धिक् ! कुतस्सकललोकसन्तापहर सखीतातो नोच्छ्वसिति)। (इति रोदिति)
भास्क-सखे !
भ्रात्रादिमप्रियसुहृज्जननिर्विशेषं
तातस्य चात्र तनुते सुखमात्मजाता ।
तस्याः कृतेऽयमिह मूर्छति चेदनन्य-
लभ्यं सुखं तदनुभूय भवामि कीदृक् ॥
(इति एततेि)
96
अरु-(उत्थाप्य) वयस्य ! धैर्यं गृहाण ।
सा मां ध्रुवं स्वहृदये दधती म्रियेत
तामेवचेतसि दृढं कलयन्म्रियेऽहम् ।
आवां परत्न मिलितौ सुखिनौ भवाव
यं भावमेति वपुपश्च्यवने स हि स्यात् ॥
(इति मूर्छति)
अरु---( वीजयन्) हा नोन्मीलयति चक्षुः । प्राणहानोद्यत एवायं सखा।
आपांसुकेलिसमयात्स्वमपांसुलाध्व
चारिन् ! सखेऽनुचरमत्र विहाय मां द्राक् ।
कैश्चिद्दिनैः परिचितां विदतः प्रियां तां
किं ते विधातुमुचिता परलोकयात्रा ।।
( इति पतति )
भ्रम--(उभावपि जलेन निषिच्य) समस्ससिहि । (समाश्वसेिहि ) ।
भास्क - -(उन्मील्य ) हन्त ! मूर्च्छितः सखा !
सखे ममोदयो नित्यं त्वां पुरस्कृत्य जायते ।
तादृशो मां कथं त्यक्त्वा परलोकं विगाहसे ॥
(उत्थापयति)
अरु- (भास्करं वीक्ष्य) वयस्य !
त्वद्विपत्तिदशां द्रष्टुमक्षमेण मयाऽधुना ।
मर्तुं व्यवसितं शीघ्रं किमर्थं मामबोधयः ॥
कासा--हा वसे !
त्वं जातमात्रा यदि लोकमन्यं तदा प्रविष्टा तव दुःखमेव ।
मां तापयेदद्य तु भास्करस्य सम्बन्धहानिर्दहतीह चेतः ।।
अरु–(स्व) युक्तमेतत् । (प्र) भास्करसम्बन्धं विना कासारस्य नास्ति हि सौगन्ध्यम् ।
97
भास्क-सखे !
प्रियाविश्लेषशोकाग्नौ दहत्यापादमस्तकम् ।
क्षिपतीव पिता तस्याः स्वविलापमयेन्धनम् ।।
कथञ्चिदहमाप्स्यामि पद्मिनीमिव वल्लभाम् ।
कासारसदृशो जातु श्वशुरो न भविष्यति ।।
अरु-सखे ! यदि भवता भूयः पद्मिनीसदृशी सुदती लभ्येत, कासारसदृशः श्वशुरश्च
भवेदसंशयम् ।
भास्क---साधु साधु ! तव वचनम् ।
पद्मिनीसदृशी कान्ता भास्करस्य न जातुचित् ।
कासारसदृशः पूज्यस्तथैव न भविष्यति ॥
यस्याः कटाक्षलहरीव मधुव्रतालि
-
र्यस्याः कचावलिरिवाभिनवाम्बुनीली (?) ।
यस्यास्तथा मुखमिवाम्बुरुहं विकासेि
तस्या भुवीह सहशी सुलभा क्व वा स्यात् ॥
यस्याः कुचाविव विभाति रथाङ्गयुग्मं
यस्या गतीरनुकरोति मरालयोषा ।
यस्यां निवासमयते कुतुकेन लक्ष्मी-
स्तस्या विना विलसितं मम जन्म कीदृक् ।।
भ्रम-हळा जहा तुमं अविआसिमुहपदुमा होसि तदा अह्माणं सहचरीणं दुःसहो खु किळेसां । (यदा त्वमविकासिमुखपद्मा भवसि तदास्माकं सहचरीणां दुस्सहः खलु क्लेशः ।
भास्क-भद्रे! कथं सहेथास्तस्याः पद्मिन्या विरहम् । यस्यास्त्वं माध्वीभिरिव मधुराभि-
रुक्तिभिरानन्दितासि ।
अरु–भद्रे ! समाश्वसहि ।
पिहितमिव मनो मे शोकदावाग्निनाऽयं
क्बलित इव देहः क्ष्वेलतापेन सर्वः ।
98
प्रमुषित इव माहेनेन्द्रियायाश्च वर्गः
प्रशमित इव धर्मश्वेतनायास्समस्त: ।।.
भ्रमरिके ! धारय माम् मम प्रेयसीतनुलताभिमर्शजातमहिमभ्यां तव पाणिभ्याम्।
भ्रम-हा ! सुमरेमि सहीए फरिससुहम्। (हा ! स्मरामि सख्या: स्पर्शसुखम्)।
(इति धारयति भास्करम्)
तनयो विभाति तव पद्मिनीं प्रियां
नृपते प्रपद्य स मुदेति योगिनः ।
वचनं निशम्य कुतुकादिहागत-
-
स्तनयागुरु: स कथमीक्ष्यतां मया ।।
ततस्तदागमात्पूर्वमेव प्रविश्य वैश्वानरं शमयामि शोकपावकम् । कोऽत्र भोः !
(प्रविश्य)
कञ्चुकी--एसोह्मि । (एषोऽस्मि ) ।।
कासा-उच्यतां सचिवोऽनुकूलोऽस्माकं सर्वोऽयमुर्वीभरस्त्वयैव धार्यताम् । वयमधुना जात-
निर्वेदा जातवेदसं प्रविशाम इति ।
कञ्चु–(सास्त्रं निष्क्रान्त:)
अवरोधमहं प्राप्य नवरत्नीवियोगतः ।
अपुनर्दर्शनां यात्रां बेोधयामि कुटुम्बिनीः ।।
( इति निष्क्रान्तः)
भास्क- सखे ! क्व गतस्य मे भवेच्छान्तिः ?
अरु-यावः प्रमदोद्यानम् । ( उभौ परिक्रामतः)
भास्क-सखे ! निखिलव्यथापनोदकारिण्यामपि ममारामभूमावस्यां वर्धते शातोदरीविरहव्यथा ! तथा हिँ--
चेतोहराणि कुसुमानि मनोमवस्य
भूत्वा शरास्तरुषु यद्यपि सङ्गतानि ।
मिन्दन्ति चित्तमिव मे बत संप्रयुक्ता
वीरेण तेन जगदेकधनुर्धरेण ॥
6
99
यदिह जलरुहं मां दृष्टमात्रं प्रियाया
वदनमतिमनोज्ञं स्मारयद् द्रागधिन्वीत् ।
अहह तदपि वाणीभूय तस्मिन् क्षणेन
स्मरधनुषि मनो मे विध्यतीव क्व यामि ।।
अरु– वयस्य ! विपन्निकष एव परीक्ष्यते पुरुषस्य धैर्यतपनीयोत्कर्षः ।
अत्यन्तभीषणतमःक्षितिभृत्क्षणेन
यत्तेजसि स्फुरति धावति दृष्टिमार्गात् ।
यस्याशनिप्रतिभयादपि भीर्न मेघात्
तं मां च कातरमहो तमुते स्मरास्त्रम् ।।
हा सखे !
रम्यं वस्त्वपि लोचने स्फुरति मे कल्पान्तकालोपमं
श्राव्या अप्यतिचारवोऽत्र हि रवाः कर्णे गगणीव मे ।
धात्रा यत्सुकुमारमस्त्विदमिति प्रीत्या स्वयं निर्मितं
तन्सर्वं विरहेऽन्यथा विदधतं किं ब्रूमहे मन्मथम् ।।
अन्तर्हितो में दयितां विनाशय तां पद्मिनीं क्वाद्य सखे मदान्धः ।
स कालगन्धद्विरदो वद त्वं भिनद्मि कुम्भं स्वकरेण तस्य ॥
( इति धावति ! )
अरु-हृा ! वयस्योऽयमुन्मादं प्रापितः स्मरेण ( इति निवारयति ) ।
भास्क-मुञ्च सखे !
अरु-संस्तभ्यतां हृदयम् |
आशाः प्रसाधयतु नैकविधा वृधानां
कृत्वा तमोहतिमयं वसुमञ्चयो मे ।
यो मीलनं स्वयमरुन्ध न मत्प्रिायायाः
श्रीनित्यवासवसतेरधुना धिगंनम् ॥
सखे ! पश्य पश्य ।
आयाति गच्छति निषीदति तत्क्षणेन
प्रोत्थाय तिष्ठति दिशो दश सम्भृतास्रम् ।
100
संवीक्षते न बिसमत्ति पिबत्यपो नो
हंस: खपोषणरतां दयितामपश्यन् ।
इति मोहं गतः )
अरु--
दशवदनहृतायां मैथिलस्यात्मजायां
दशरथनृपपुत्रो यामवस्थामवाप ।
अनुभवति सग्वा मे तामवं किं विधेयं
पुनरिह तु सुमित्रावत्य पावं श्रयामि ।।
( इति भास्कमवलम्बते )
भास्क-- (ससम्भ्रमं दिशो वीक्ष्य ) सखे ! दृश्यते सर्वतः प्रेयसी ।
क्रीडन्ती सा क्वचन तरुणी कन्दुकैदृक्पथे में
पुष्पं हस्ते कश्चन दधती लक्ष्यतेऽलङ्करिष्णुः ।
अन्यत्रैषा मम करतलान्नागवल्लीं गृहीत्वा
वक्त्रे हर्षादिह धृतवती मन्मुखे तन्वतीयम् ॥
वयस्य ! कथमियमिदानीं क्वापि न दृश्यते । कश्चिदेनां गृहीत्वा जलदरूपेण विद्युतामिव नयति
वियति । तदहं तमनुगम्य निवर्तयामि । (इत्युत्प्लवते )
अरु---सखे ! किमुन्मत्तभूतोऽसि ?
भास्क -आ: ! ज्ञातम् । वर्तते पद्मिनीं भूसद्मनि । अद्य स्वस्थोऽस्मि । किंमपि पृच्छामि
कस्त्वम् ? कुत आयासि ? अपि त्वया दृष्टपूर्वा पद्मिनी ?
अरु–किं प्रलपसि ?
भास्क--आः, सखा खलु भवान् । सखे पिङ्गल ! क्व मे सखा अरुणः ?
अरु-अहमेवारुणः ।
भास्क--पिङ्गल: कुत्र ?
अरु–पर्यवस्थापयात्मानम्।
भास्क-किं प्रलपामि ?
अरु-तथा !
101
भास्क-कुतः ?
अरु--पद्मिनीविरहात् ।
भास्क-पद्मिनी कुत: ?
अरु--न ज्ञायते ।
कुसुमशर नमस्ते तिग्मबाणप्रयोगा-
द्विरम परभृत त्वां नौमि मौनं भजस्व ।
मलयपवन दूरे वाहि भद्रं तव स्या-
द्भवति हि भुवि पुण्यं दीनसंरक्षणेन ॥
अरु-सखे ! निषीद प्रच्छायशीतले वकुलपादपतले ।
भास्क-(निषीदन्) सखे ! नान्यत्र गता तव सखी ।
शुशुत्सया मत्प्रणयस्य मन्ये कयाऽपि शत्त या मम चित्तमेव ।
प्रवेिश्य लीना ह्यथवा तदेतन्न युज्यते तापमिदं यदेति ।।
अरु-मा विलापीः । भगवान् शारदानन्दो यदत्र प्रतिकर्तुं शक्नोति ।
भास्क-सखे ! मम तातपादानानेतुं गतो नितान्तगुणोऽसौ योगी यावदायाति तावत क्व वत्स्याव: !
अरु-सखे ! तावदध्युषितपूर्वं प्रमदावनप्रासादमध्यास्वहे ।
(इति निष्कान्तौ )
इति पद्मिनीपरिणये नवमोऽङ्कः ।
102