पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
236
अलंकारमणिहारे

अत्र सूर्यादीनां नवानां ग्रहाणां प्रकृतान्वयं विना क्रमेण न्यासः । नवग्रहेत्यनेन सूच्यार्थसूचनान्मुद्रा च । प्रागुदाहृतं ‘भास्वान् राजा’ इत्यादिपद्यं तु प्रकृतान्वयि भगवद्विषयश्चेति वैलक्षण्यम् ॥

 यथावा--

 भुजगाचलशृङ्गारो वीरः करुणाद्भुतो महास्यरुचिः । स्वभया न कं नु वशयेद्बीभत्तितरौद्ररिपुरयं शान्तः ॥ १७९९ ॥

 करुणया अद्भुतः विस्मयावहकृप इत्यर्थः । महती आस्यरुचिः मुखप्रभा यस्य बीभत्सिताः विकृताः कुताः रौद्राः दारुणाः रिपवः येन सः । शान्तः ऊर्मिषट्कप्रतिभटः स्वभया निजप्रभया कं नु न वशयेत् सर्वमपि स्वतेजसैव वशीकुर्यादित्यर्थः । अत्र--

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।
बीभत्सरौद्रशान्ताश्चेत्येते नव रसाः स्मृताः ॥

 इति कश्चित्प्रसिद्धक्रमाणां नवानां रसानां क्रमेण न्यासः ।

क्वचित्तु--

शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥

 इति क्रमः पठ्यते । तदनुसारे तु वक्ष्यमाणक्रमवैपरीत्यादेरुदाहरणं भविष्यति ॥

 यथावा--

 मधुहर माधव तनुयाश्शुक्रशुचिं ननु नभस्सदामपि मान्यम् । भाद्राश्वयुजोर्जस्वलसहायतैषं समाघनतपस्यं त्वाम् ॥ १८०० ॥