पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
235
रत्नावळीसरः (७७)

अस्मद्वचनानि संततं दिव्यमङ्गळविग्रहं परं ब्रह्म पुरुषोत्तमं श्रीनिवासमेव परिचिन्वताम् । तद्विषयकप्रबन्धानेव प्रणयन्तामिति भावः । अत्र श्रुतिप्रसिद्धसहपाठानां भूरादिसप्तव्याहृतीनां क्रमेण विन्यासः । व्याहृतय इत्यनेन तादृशसूच्यार्थसूचनं चेति पूर्ववदेव मुद्राशिरस्कत्वम् ॥

 यथावा--

 अरुणाब्जवर्णमङ्गळसौम्याङ्गिरसावभासित नुहसिते । असिताक्षि मातराहुर्लोकेऽतुल्याऽनवग्रहेति त्वाम् ॥ १७९८ ॥

 अरूणाब्जस्य वर्ण इव वर्णो यस्य तत् ‘पद्मवर्णाम्' इति श्रुतेः । तथोक्तं मङ्गळं सौम्यं सुंन्दरं 'सौम्यं तु सुन्दरे सोमदैवते' इत्यमरः । तादृशं अङ्गं यस्यास्सा तथोक्ता तस्यास्संबुद्धिः 'अङ्गगात्र' इति ङीष् । रसेन शृङ्गाररसेन दयारसेन वा अवभासि प्रकाशमानं न तु 'स्मयन्निव नृपो हन्ति’ इतिवत्परातिसंधायकं, तनुहसितं मन्दहासो यस्यास्सा तथोक्ता । अनेन भगवन्मन्दहसितादप्यस्या मन्दहसितं गुणवत्तरमिति द्योतितम् । तद्धि हासो जनोन्मादकरी च माया’ इत्युक्तरीत्या जनोन्मादकारिमायारूपं तस्यास्संबुद्धिः रसावभासितनुहसिते । हे असिताक्षि! 'तं चेयमसितेक्षणा’ इत्युक्तेः । हे मातः! त्वां अतुल्या असदृक्षा अनवग्रहा अप्रतिबन्धा सर्वव्यापिनीत्यर्थः । 'अवग्रहो दृष्टिरोधे प्रतिबन्धे गजाळिके’ इति मेदिनी । यद्वा अनवग्रहा निरङ्कुशस्वातन्त्र्या अपर्यनुयोज्यस्य भगवत्स्वातन्त्र्यस्यापि तदधीनत्वात् । यथोक्तं ‘यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलम्' इत्यादि । इति वदन्ति सन्त इति शेषः।