चाणक्यः-( स्व[१]गतम् । ) व्रजतु कार्यसिद्धये । ( प्रकाशम् । सकोधमिव ।) वत्स[२] उच्यन्तामस्मद्वचनाद्भद्रभटपुरुषदत्तडिङ्गरातबलगुप्तराजसेनरोहिताक्षविजयवर्माणः शीघ्रमनु[३]सृत्य गृह्यतां दुरात्मा भागुरायणः[४]।
शिष्यः--[५]तथा । (इति निष्कम्य पुनः प्रविश्य सविषादम् ।) हा[६] धिक् कष्टम् । सर्वमेव तन्त्रमाकुलीभूतम् । तेऽपि खलु भद्रभटप्रभृतयः प्रथमतरमुषस्येवापत्र्का[७]न्ताः ।
चाणक्यः-( स्वगतम् ।) सर्वथा[८] शिवाः पन्थानः सन्तु । ( प्रकाशम् ।) वत्स[९], अलं विषादेन । पश्य ।
ये याताः किमपि प्रधार्य हृदये पूंर्व गता एव ते |
अपक्रान्ता इति । अस्मदिष्टसिद्धय एव गता इत्यर्थः ।
ये इति । किमपि प्रधार्य हृदये अस्मद्विरोधं मनसि कृत्वेति बहिः । अस्मत्कार्यमेव साधयितुमिति गूढम् । सर्वा अपि प्रकृतयः सुखेन यान्तु न हि तदवलम्बेनाहं कार्यं साधये बुद्धिबलेनैव संर्व साधयामीत्यर्थः । अयं चतुर्वर्णनिर्वर्णनं वर्णसंहारः । ब्राह्मणादिचतुर्वर्णान्तःपातिनीनां प्रकृतीनां ‘ये याता:' इत्यादिना निर्वर्णनान्निर्देशान्नयोदशमङ्गम् । तृतीयाङ्के वक्ष्यमाणं तेषामुदन्तमानेष्यामीति गूढ़ाशयः ॥ २६ ॥
- ↑ आत्मग° G. E.
- ↑ G. D. om. इव before this. For वत्स A. P. M. N. read भद्र; B. K. add तस्कृतं विपादेन after this; A, P. M. K read उच्यताम् for उच्यन्ताम् which follows this; °भट्ट for °भट E; for डिङ्ग° B. has हिङ्ग°. G. डिण्ड॰; R. E. डिङ्गि;H. हिङ्गु; for रोहिताक्ष K, has लोहि॰.
- ↑ °सुप° for ॰मनु° B. E.
- ↑ R. G. M. add इति here.
- ↑ यदाज्ञापयत्युपाध्याय इति B. N; E; यदाग्येति G.
- ↑ om. in E; हा धिक्कष्टम् om. in R. M. B. E. G. have उपाध्याय before हा; जन्त्र for तन्त्र P; व्याकुली° for आकुली° P.
- ↑ P. om. °तर° after प्रथम. After °तरम् B E. N. and H. read अप्रभाताथामेव°; रजन्यासप°; G. has प्रथमतः प्रभातायामेव &c.
- ↑ सर्वेषाम् G. E. N; सर्वदा R सर्वेषामेव B ; सथा K; सन्तु before पन्थानः G
- ↑ कृतम् for अलम् G; R. K. M. om. पश्य
- ↑ निघ्नन्ति N; गमनं कासं सकामोद्यमाः E.