पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयोंऽनुवांक

अन्नमये शीकेः

अनादै प्रजा प्रजायन्ते । याः काश्च पृथिवी’

श्रिताः । अथो अनेनैव जीवन्ति । अत्रैनदर्षेि

यन्त्यन्तः । अत्र “हि भूतानां ज्येष्ठम्। तस्मात्

सर्वोषधर्मुच्यते । सर्वे वै तेऽन्नमाप्नुवन्ति । येऽनं

ब्रह्मोपासते । अत्र हि भूतानां ज्येठेत्। तस्म

त्सवौषधमुच्यते । अत्रांतानि जायन्ते । -

तान्यनेन वर्धन्ते । अत्रतेऽत्ति च भूतानि । त

स्मादनं तदुच्यत इति ।

 अचांद्रसादिभावपरिणतात्–वै इतिस्मरणार्थः--प्रजाः स्थावरजङ्गमात्मकाः प्रजायन्ते । याः काश्चाविशिष्टः पृथिवीं श्रिताः पृथिवीमाश्रिताःताः सर्वा अन्नदेव प्रजायन्ते । अथो अपि जाता अन्नेनैव जीवन्ति प्राणान्धारयन्ति-व र्धन्त-इत्यर्थः । अथ अपि एनत् अन्नं अपियन्ति अपिगच्छन्ति–“ अपि शब्दः प्रतिशब्दार्थ-अन्नं प्रति प्रलीयन्त इत्यर्थःअन्ततोऽन्ते-जीवनलक्ष णाया वृद्धः परिसमाप्तौ । कस्मात् ? अन्नं हि यस्माद्भतानां प्राणिनां ज्येष्ठं


स्वं वाय्वग्निजलव्यवध्यन्नदेषु कारणम् । पूर्वं पूर्व भवेत्कार्यं परं परमितीक्ष्यताम् ॥ ३२ ।।
इन्द्रो मायाभिरभवद्वहुरू उप इति श्रुतेः । आसन्माथकरूपाणि खादीनि ब्रह्मगानि हि ॥ ३३ ॥
परास्य शक्तिर्विविधेयेवं भृत्यंतरेरणात् । विविधा ब्रह्मणः शक्तिः सा च मायानृतचतः ॥ ३४॥
सत्यस्य ब्रह्मरूपत्वाच्छरनृततोचिता । निस्तत्त्वा भासते याऽसौ माया स्यादिन्द्रजालवत् ।। ३५.।
मायाया विविधत्वेन तस्याः कार्येषु खदिषु । नामरूपेष्वनेकत्वं भात्यन्योन्यविलक्षणम् ।। ३६ ॥
भाति सर्वेषु सत्यत्वमेकं यद्वद्गं हि तत् । सर्वाधिष्ठानधर्मत्वात् तसर्वत्रानुगच्छति ॥ ३७ ॥ ।
सर्पधारादण्डमाला। रज्ज्वां या; परिकल्पिताः । एतासु रज्जुगं ‘दैर्यं सर्वास्वनुगतं यथा ।। ३८ ।।
व्योमाद्य देहपर्यन्ताः सत्ये ब्रह्मणि कल्पिताः । सर्वेष्वनुगतं ब्रह्म सत्यत्वं तस्य मुस्थितम् ।। ३९ ।।
अध्यारोपापवादाभ्यां निष्प्रपथं प्रपञ्च्यते । इति न्यायेन देहान्त आरोपः खादिरीरितः॥ ४० ॥

                                     तैत्तिरीयकविणप्रकाशः

(१) पूर्व स्त्रोक्तेऽर्थे (४. ४७.) काचिदृणुदाहृता, तत्समुच्चयमाभिनेयात्र ‘अपि’ शब्दः प्रयुक्तः । चतु- दशभिः पादैरुपेतोऽयं श्लोकः । ईदृशस्य लोकप्रसिद्धस्य च्छन्दोविशेत्रस्याभावेऽपि वैदिकं किंचिदनिच्छन्द भविष्यति । (२) जैगमाः-पाठः। ( ३) वृत्तेः–पाठः।