वितन्वाना शमयन्तु ब्रह्मचारिणः स्वाहं धार्तरायन्तु
सर्वतः स्वादैकं च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां चतुर्थोऽनुवाकः ।। ४ ॥
अथ शिक्षावल्ल्याम् पञ्चमोऽनुवाकः ।
(व्याहृत्युपासनम्)
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः।
उपस्थानम् तिवेशस्त्वच्छीलिनां सर्वपापदुःखापनयनस्थानमसि, अतो मा मां प्रति प्रभाहि प्रकाशयाऽऽत्मानं, प्रपद्यस्व च-मां रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याप्रकरणेऽभिधीयमानो धनार्थ: धनं च कर्मार्थम् , कर्म चोपात्तदुरितक्षयार्थम् , तत्क्षये हि विद्या प्रकाशते, तथा च संसृतिः
“ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः।
यथाऽऽदर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि ।”- इति।
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥
अङ्गदेवताध्यानस्य प्रतीकत्वेन व्याहृतित्रयम् संहिताविषयमुपासनमुक्तं, तदनु मेधाकामस्य श्रीकामस्य च मन्त्र अनुक्रान्ता:, ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणोऽन्तरुपासनं स्वाराज्यफलम् प्रस्तूयते भूभुवः सुवरिति; ‘इतिः’ उक्तोपप्रदर्शनार्थ–एतास्तिस्र इति प्रदर्शितानां परामर्शार्थः परामृष्टाः स्मार्यन्ते; वै--इत्यनेन तिस्र एताः प्रसिद्धा व्याहृतयः स्मार्यन्ते तावत् ।
वृत्तानुवादपूर्वकमुत्तरानुवाकस्य संबन्धमाह-सम्हिताविषयमित्यादिना । व्याहृतीनां श्रद्धागृहीतत्वात्, तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृतिशरीरं हिरण्यगर्भाख्यं ब्रह्मन्तः-हृदये–ध्येयत्वेनोपदिश्यते इत्यर्थः।
(१) तुल्यम्-यद्दयो रसविठं काञ्चनतां याति तद्वदेवासौ । स्वात्मनिरूपणे -५८.रसविद्धमयः स्वर्गे यथा भवति सर्वदा । केनचित्साधनेनैव तथा जीवः शिवो भवेत् ॥ इति केचित्स्वमोहेन प्रवदन्ति तुवादिनः ॥ मूत- सं० ४.३९३० (२) शांति-प. २०४–८