पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५ पञ्चमोऽनुवाकः ]
१७
व्याहृत्युपासनम्


तासामु ह स्मैतां चतुर्थीम्। माहाचमस्यः प्रवेदयते । मह इति।

तद्ब्रह्म । स आत्मा । अङ्गन्यन्या देवता:।

भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ

लोकः(१)।मह इत्यादित्यः । आदित्येने वाव सर्वे लोका महीयन्ते ।

भूरितेि वा अग्निः । भुव इति वायुः। सुवरित्यदित्यः। मह

इतेि चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीम्षि महीयन्ते ।

भूरिति वा ऋचः। भुव इति सामानि । सुवरिति युजूम्षि (२)।

चतुर्थव्याहृतिः  तासामियं चतुर्थी व्याहृतिर्मह इति; तामेतां चतुर्थी महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते- -उ ह स्म,-इत्येतेषां वृत्तानुकथनार्थत्वाद्विदितवान् ददर्शेत्यर्थः।'माहाचमस्य'ग्रहणमार्षानुस्मरणार्थम् । ऋष्यनुस्मरणमप्युपासनाङ्गमिति गम्यत इहोपदेशात्। व्याहृतिचतुष्टये दृष्टिविशेषविधानम्  येयं माहाचमस्येन दृष्टा व्याहृतिः 'महः' इति, तद्ब्रह्म-महद्धि ब्रह्म, महश्च व्याहृतिः । किं पुनस्तत्? स आत्मा- आप्नोतेर्व्याप्तिकर्मण आत्मा; इतराश्व व्याहृतयः – लोकाः,देवाः,वेदा:, प्राणाश्च- मह इत्यनेन व्याहृत्यात्मनाऽऽदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः , अतोऽङ्गान्यवयवा अन्या देवताः, देवताग्रहणमुपलक्षणार्थं लोकादीनाम् । तासु लोकदेवदृष्टिविधानम्  मह इत्येतस्य व्याहृत्यात्मनो देवलोकादयश्च सर्वेऽवयवभूता यतः, अत आहाऽऽदित्यादिभिर्लोकादयो महीयन्त इति; -आत्मना ह्यङ्गानि महीयन्ते, महनं वृद्धिरुपचयः, महीयन्ते वर्धन्त इत्यर्थः।


‘महः’ इति व्याहृतावङ्गिब्रह्मदृष्टिः कर्तव्या । तत्र किं साम्यम् ?--इत्यत आह—महद्धीति। यथा देवदत्तस्य पादादीन्यङ्गानि, मध्यभागश्चाङ्गीगीतरेषामङ्गानामात्मा कथ्यते--व्यापकत्वात्, तथा महाव्याहृतिर्हिरण्यम्गर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते ; इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते । प्रथमव्याहृतिः पादौ , द्वितीया बाहू , तृतीया शिर इत्यर्थः ।


(१) तस्या महत्वाद्भावम् , सर्वव्यापकत्वाच्चाऽऽमत्वम् । (२) आप्नोति-उपादानकारणतया स्वकार्यभूतं सर्वं जगदन्तर्बहिश्व व्याप्नोयारमा। उक्तं हि--‘यदादत्ते यच्चाप्नोति विषयानिह । यच्चास्य सन्ततो भावतस्मादात्मेति गीयते”। लिङ्ग-पु. ७०.९६ (३)महाव्याहृतावन्निब्रह्मदृष्टिर्महत्त्वब्यापकवसामान्यात् ।