पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ शिक्षावल्ल्यां तृतीयोऽनुवाकः ।

(संहितोपासनम्)

सह नौ यशः । सह नौ ब्रह्मवर्चसम्। [१]

अथातः सम्हिताया उपनिषदं व्यख्यास्यामः [२] । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् [३] । ता महासम्हिता इत्याचक्षते [४]विद्यातत्फलयोरुत्कर्ष: प्रार्थ्यते। अधुना संहितोपनिषदुच्यते । तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यद् यशःप्राप्यते, तन्नौ आवयोः शिष्याचार्ययोः सहैवास्तु । वः प्रार्थने। तन्निमित्तं च यद्रह्मवर्चसं तेजःतच्च सहैवास्तु, इति शिष्यवचनमाशीः । शिष्यस्य ह्यकृतार्थत्वात्प्रार्थनोपपद्यते, नाऽऽचार्यस्य–कृतार्थत्वात्-कृतार्थोह्याचार्यो नाम भवति।

अथानन्तरमध्ययनलक्षणविधानस्य पूर्ववृत्तस्य यतोऽत्यर्थं ग्रन्थभाविता बुद्धिर्न शक्यते सहसाऽर्थज्ञानविषयेऽवतारयितुमिति–अतः संहिताया उपनिषदम् संहिताविषयं दर्शनमिति—एतद्ग्रन्थसंनिकृष्टामेव--व्याख्यास्यामः । पञ्चस्वधिकरणेषु-आश्रयेषु–शानविषयेष्वित्यर्थः । कानि तानि ? इत्याह-अधिलोकं लोकेष्वधि यद्दर्शनं तदधिलोकम्, तथाऽधिज्योतिषम्, अधिविद्यम्, अधिप्रजम् , अध्यात्मम्--इति । ता एताः पञ्चविषया उपनिषदो लोकादिमहावस्तुविषयत्वात् संहिताविषयत्वाच्च महत्यश्च ताः संहिताश्च ता महासंहिता इत्याचक्षते कथयन्ति वेदविदः ।


तस्यान्यत्रैव सिद्धत्वात्, इह कर्मव्युत्पत्तिरेव शिक्षाशब्दस्य ग्राह्या । [रूपमिति]fचाक्षिङः ख्याय् ’ इति सूत्रेण ख्यामादिष्टो यस्तस्येदं रूपं, न * ख्या प्रकथने ’ इत्यस्य, तस्य सोपसर्गस्य प्रयोगानभिधानादित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्द नन्दशनविरचिते तैत्तिरीयोपनिषच्छां करभाष्यटिप्पणे शिक्षावल्ल्यां द्वितीयोऽनुवाकः ॥ २ संहिता-वर्णानां सन्निकर्षःतद्विषयमुपासनं प्रथमं कथ्यत इत्याह--अधुनेति । सन्निधानाच स्वशाखासुंहितैव ग्राह्म । ‘भं नो मित्र’ इत्यायाशीर्वादः कृत्नोपनिषच्छेषः संहितोपनिषच्छेषमाशीर्वादान्तरमाह-तत्रेति । " (१) पा. सू. २-४-५४ (२) धातुपाठः २. ५० (३)'स्वासंनिहितै' इति पाठान्तरम्।

  1. (१) पा. सू. २-४-५४
  2. (२) धातुपाठः २. ५०
  3. (३)'खासंनिहितै' इति पाठान्तरम्।
  4. (३)'स्वासंनिहितै' इति पाठान्तरम्।