पृष्ठम्:अलङ्कारमणिहारः.pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
150
अलंकारमणिहारे

बोद्धव्याविशेष्यकस्मरसंज्वरवत्तावैशिष्ट्यबुद्धौ सत्यां सहृदयायास्तस्याः तादृशसंज्वरशान्तिकारिश्रीकृष्णरूपविषयताद्रूप्यबुद्धिर्जाते । अयं शब्दशक्तिमूलः ॥

 यथावा--

 अयि दूयसे किमर्थं साधो दूरं विधेहि जाड्यभयम् । प्रत्यासन्नं माधवमीक्षस्व य एतदुपशमं नेता ॥ २५२ ॥

 इदं शिशिरर्तौ वेङ्कटाचलप्रान्ते निवसन्तं कंचन साधुं प्रति कस्यचिद्वचनम् । जाड्यं शैत्यं मान्द्यं च । माधवं वसन्तं भगवन्तं च । अत्राञ्जसा जाड्यशान्तिनिमित्ततयोपस्थिते वसन्ते पश्चाद्बोधनीयसा‌धुविशेष्यकजाड्यवत्तावैशिष्ट्यबुद्धौ सत्यां सहृदयस्य तादृशजाड्यशमयितृश्रीनिवासरूपविषयताद्रूप्यबुद्धिर्भवतीत्ययमपि शब्दशक्तिमूलः परिणामध्वनिः ॥

इत्यलंकारमणिहारे परिणामसरोऽष्टमः.


अथोल्लेखसरः.


ग्रहीतृभिरनेकैर्यदेकस्यानेकधा ग्रहः ।
रूच्यादिकारणवशात्तमुल्लेखं प्रचक्षते ॥ ४३ ॥

 एकस्य वस्तुनो निमित्तवशाद्यदनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं स उल्लेखः । रुच्यदीत्यादिशब्देनार्थित्वभयादीनां संग्रहः ।