पृष्ठम्:अलङ्कारमणिहारः.pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
149
परिणामसरः ‍‌‍‌‍‌(८)

अथ परिणामध्वनिः.


 तत्रार्थशक्तिमूलपरिणामध्वनिर्यथा--

 कल्पमहीरुह कल्पय निरतिशयां संपदं नितान्तं नः । यां सन्तोऽनुभवन्तो जन्मजरादिव्यथां न धावन्ति ॥ २५० ॥

 अत्र वक्तुः परिच्छिन्नैश्वर्यविरक्ततया व्यज्यमानभगवदभिन्नतया कल्पतरुर्विवक्षितः, तेन रूपेणैव तस्योत्तरार्धविवक्षितमुक्त्यैश्वर्यरूपनिरतिशयसंपत्संपादकत्वात् । न चात्र विषयनिगरणात्मकातिशयोक्तिश्शक्या वक्तुम् । तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्ययः । यथा--'कमलं कनकलतायाम्' इत्यादौ कनकलताभिन्नायां वनितायां कमलाभिन्नं मुखमिति । अत्र तु भगवतः कल्पमहीरुहाभिन्नत्वेन प्रत्यये पुनर्निरतिशयसंपत्संपादनलक्षणप्रकृतकार्यसिद्धिरिति कल्पकस्यारोप्यमाणस्य भगवद्रूपविषयाभिन्नत्वं मृग्यम् । तच्च व्यङ्ग्यतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्तिः ॥

 शब्दशक्तिमूलो यथा--

 कंजायताक्षि मुग्धे संज्वरमनुविंदसे सखि किमर्थम् । आशास्व घनं कृष्णं येन त्वं शान्तिमेष्यसि क्षिप्रम् ॥ २५१ ॥

 इदं काञ्चिद्गोपिकां प्रति कस्याश्चित्सख्या वचनम् । अत्र झगिति संज्वरशमनहेतुत्वेनोपस्थिते नीलाम्बुदे पश्चान्मुग्धारूप-